________________
१४८
प्र० वा. वृत्तौ (२ परिच्छेवः) नान्या भावाद' देरनित्यता तस्यैव क्षणक्षयिस्वभावत्वात्। स च भाव ऐन्द्रियात्प्रत्यक्षासितः। पूर्व विकल्पात्। ततस्तमेव यथागृहीतं विकल्पयन् विकल्पो गृहीतग्राही। यत एव नान्याभावादनित्यता। अत एवाभावोऽसौ धर्मिधर्मरूपतया नानेकरूपः। तथा न वाच्योऽसौ शब्दानां धर्मिधर्माभावस्य तैवंचनात्। तस्य च वस्तुन्यसम्भवात्। कतर्हि वाच्य इत्याह (1)
वाच्यो धर्मो विकल्पजः ॥१०२॥ विकल्पको विजातीयाश्रयेण विकल्पकल्पितो धर्मः परस्परं यथासंकेतमसंकीर्णः शब्दानां वाच्यः। (१०२)
सामान्याश्रयसंसिद्धौ सामान्य सिद्धमेव तत् । ----- तदसिद्धौ तथास्यैव अनुमानं प्रवर्तते ॥१०३॥
तस्मात्सामान्यस्यानित्यादेराश्रयस्य वर्णादेः प्रत्यक्षात् संसिद्धौ सिद्धमेव तत्सामा। यदि त्वभ्यासावभावादनुरूपनिश्चयाभावा दज्ञानं तदा प्रत्यक्षातदसिद्रावस्यैव हि वर्णादेस्तथा नित्यत्वेन तदव्यभिचारिलिङ्गारनुमान प्रवर्तते। . (१०३)
कस्मात्पुनाहीतेप्यपरिज्ञानमित्याह (1) .. क्वचिचदपरिक्षानं सहशापरसम्भवात् ।
भ्रान्तेरपश्यतो भेदं मायायोलकमेदवत्॥१०४॥ अवचिदनित्यतादौ गृहीतेप्यनुरूपमिश्चयाभावादपरिक्षानं। पूर्वक्षणविनाशकाले तत्सदृशस्यापरस्य सम्भवात्। भावशून्यान्तरा लक्षणाभावात् । स एवायमिति 28b भ्रान्तेः स्थैर्यग्राहिण्याः क्षणानां भेदम पश्यतोऽनिश्चिन्वतः पुंसो दृष्टान्तमाह (1)
मायागोलकभेदवत् । मायाकारदर्शितौ गोलको भिन्नावध्यक्षेण गृहीत्वापि सादृश्याल्लाघवाच्च विप्रलब्धबुद्धिरेकत्वेनाध्यवस्यति यथा तथा स्थिराध्यवसायः। (१०४)
ननु यदि क्वचिन्नाशो दृश्येत तदास्या हेतुकस्य स्वभावत्वात् क्षणक्षयिषु भावेषु एकताबुद्धन्तित्वं भवेदित्याह (1) ... ___ तथा बलिङ्गमाबालमसंश्लिष्टोत्तरोदयम् ।
पश्यन् परिच्छिनत्स्येव दीपादि नाशिनं जनः ॥१०॥
'बलात्।
'दृश्यतेव दीपादिरिति लित्वं गौः भावी।