________________
अनुपलग्विचिन्ता
१४७ कस्मात्पुनरमूढार्थमपि तन्नेत्याह (1)
आगोपालमसंवृत्तेः॥९९॥ आगोपालमस्यार्थस्यासंव' त्तेरगूढत्वात् प्रसिद्धरित्यर्थः। (९९)
एतावनिश्चयफलमभावेनुपलम्भनम्।
तच हेतौ स्वभावे वाऽदृश्ये दृश्यतया मते ॥१०॥ एतावत्त्रिविधम् । कारणव्यापकस्वभावानुपलम्भनं। अभावेऽभावव्यवहारे च निश्चयफलं । कारणविरुद्धोपलम्भादयस्तु कारणाद्यनुपलम्भोपलक्षणत्वात् त्रिविध एवान्तर्भूताः। तच्चाभावनिश्चयपालत्वमनुपलम्भस्य हेतौ स्वभावे च व्यापके निषेध्यरूपे च दृश्यतया दर्शनयोग्यतया मते दृश्येऽनुपलभ्यमाने सति नान्यथा।
तदेवं त्रिविधलिङ्गजमनुमानं प्रमाणं वस्तुसम्वादात् ततस्तत्प्रसिद्धस्यानित्यतादेर्न वस्तुधर्मतेति स्थितं। (१००)
नन्वनित्योऽयं वर्ण इति स्वलक्षणे योजना तत्कथं योजनाद्वर्णसामान्य . (२७९) इत्युक्तं। अत्राह (1) . . अनुमानादनित्यादेहणेऽयं क्रमो मतः ।
प्रामाण्यमेव नान्यत्र गृहीतग्रहणान्मतम् ॥१०१॥ अनुमानात्परोक्षस्यानित्यादेधर्मस्य प्रहणे वस्तुसामान्यमनित्यत्वेन गृह्यत इत्ययं क्रमो मतः। वर्णसामान्यञ्च प्रत्यक्षतः सिद्धं तद्बलभाविना विकल्पेन विजातीयव्यावृत्याश्रयेण व्यवस्थापनात्। यस्तु विनश्वरं* वणं दृष्ट्वाऽनित्योऽयमिति विशेषविषयः अनुमानादन्यत्र। तत्र प्रामाण्यमेव न मतं गृहीतग्रहणात् (११०१) · कथं गृहीतग्राहित्वमित्याह (1)
नान्यास्यानित्यता भावात् पूर्वसिद्धः स चैन्द्रियात् । नानेकरूपो वाच्योऽसौ;
'विवृतौ
आनुषङ्गिक समाप्य प्रकृतमाह। सति नान्यदायं क्रमः। • सन्तानोपलम्भावस्थायामनित्यमेतद्ववर्णादिक। विकारित्वात्। जलादिबदिति स्वभावहेतुरतो वस्तुन एवात्र सिद्धिः।