SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ प्र० वा. वृत्तौ (२ परिच्छेदः) सत्वादिति सत्ताजन्मनोश्चाभेदः सां ख्या' भ्युपगमादुच्यते। न तु परमार्थतः तादात्म्यं विरुद्धयोरस्ति। विरुद्ध च सत्ताजन्मनी प्रागसत्तया हि अभिव्यक्तिरूपताया लाभो जन्मोच्यते। सत्ता तु विद्यमानता। ततो येन रूपेण सत्त्वं न तेन जन्म । येन च जन्म तेन न सत्त्वमिति व्यक्तः परस्परपरिहारस्थितिविरोषः। (९५) यथा वस्त्वेव वस्तूनां साधने साधनं मतम् । तथा वस्त्वेव वस्तूनां स्वनिवृत्तौ निवर्त्तकम् ॥१६॥ यथा च वस्तूनां साध्यानां साधने साधनं वस्त्वेव मतं नावस्तु। तया वस्त्वेव . स्वस्य निवृत्तौ वस्तूनां निवर्तकं नावस्तु। (९६) एतेन कल्पनान्यस्तो यत्र कचन सम्भवात् । ___धर्मः पक्षसपक्षान्यतरत्वादिरपोदितः ॥९॥ एतेन वस्तुनः साधनत्वप्रतिपादनेन विकल्पनान्यस्तो धर्मः पक्षसपमान्यतरत्वादि। आदिशब्दान्मदुपगमादिश्चापोदितः प्रतिक्षिप्तो बोद्धव्यः। तादृशस्य 28a साधनस्य यत्र क्वचन' साध्ये सम्भवात् । न हि पक्षत्वं सपक्षत्वम्वा जातिनियतं किन्तु वाञ्छाधीनमवस्तु। अतः समीहितसिद्धौ सर्व्व सर्वस्य सिध्येत्। (९७) ... तत्रापि व्यापको धो निवृत्तेर्गमको मतः। व्याप्यस्य स्वनिवृत्तिश्चेत् परिच्छिन्ना कथञ्चन ॥९८॥ तत्र वस्तुन्यपि व्यापको धर्मः कारणं स्वभावो वा। व्याप्यस्य कार्यस्य स्वभावस्य निवृत्तेर्गमको मतः। व्यापकस्य कारणस्वभावस्य स्वनिवृत्तिः कथञ्चन साक्षात्परम्परया वा परिच्छिन्ना चेत् स्यात्। (९८) यदप्रमाणताभावे लिङ्ग तस्यैव कथ्यते । तदत्यन्तविमूढाथे; तथा यस्यार्थस्य एकज्ञानसंसग्गिणोप्रमाणता प्रमाणनिवृत्तिस्तस्यैवाभावेऽभावव्यवहारे च साध्ये सा प्रमाणनिवृत्तिः स्वभावानुपलम्भाख्या लिङ्ग कच्यते। तत्स्वभावानुपलब्धिलिङ्गमत्यन्तविमूढार्थ। ये ह्यनुपलभ्यमानमपि दृश्यमसत्तया मोहान व्यवहरन्ति तान् प्रति व्यवहारसाधकं तल्लिङ्ग। सदुत्पद्यते आविर्भावतिरोभावः परं वैभाष्योपि सद्वादी। अनित्यः शब्दः पक्षसपक्षान्यतरत्वाद् घटववित्यनित्येन प्रत्यासत्तौ दशितायां। तदैव वक्तुरिच्छावशानित्यः शब्दः पक्षसपक्षान्यतरत्वादाकाशवविति नित्येन प्रत्यासत्तिरिति कम्बलिप्रोक्तं हेतुमपाकर्तुमाह।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy