________________
प्र० वा० पुसी (२ परिच्छेदः)
यस्मादवश्यं परम्परयानुपलब्धेरेव प्रतिषेधः । तस्मात्स्वशब्देनानुपलम्भस्वरूप वाचकशब्देनोक्ता स्वभावानुपलम्भादावपि शब्दादनुक्तापि विरुद्धोपलब्ध्या 'दी सानुपलब्धिरभावसाधिका तस्या एव प्रतिपाद्यत्वात् । यस्य तु चा व्यि क स्य सानुपलब्धिरप्रमाणं प्रतिषेधे साध्ये तेन सर्व्वथा निषेधोऽवाच्यः प्रत्यक्षस्य भावमात्रविषयत्वात् । प्रमाणान्तरस्य चाभावात् । (८९)
१४४
एतेन तद्विरुद्धार्थकार्योक्तिरुपवर्णिता ।
प्रयोगः केवलं भिन्नः सर्वत्रार्थो न भिद्यते ॥ ९० ॥
एतेन स्वभाव' तत्कारणविरुद्धोपलब्ध्योरनुपलब्धित्वप्रतिपादनेन तयोः 27b स्वभावतत्कारणयोव्विरुद्धार्थस्य कार्योक्तिरुपर्वाण' ता बोद्धव्या । यथा नात्र शीतस्पर्शो रोमहर्षवान्वा पुरुषो धूमादिति । अत्रापि निषेध्यानुपलम्भस्य परंपरया प्रतिपादनात्। उपलक्षणञ्चैतद् व्यापकविरुद्धतत्कार्योपलब्धी अपि बोद्धव्ये । यथा नात्र तुषारस्पर्शो वह्नेर्धूमादिति । एतासु स्वभावानुपलब्धिविरुद्धोपलब्ध्यादिषु प्रयोगः शब्दाभिधाव्यापारः परमनुपलम्भोपलम्भप्रतिपादकत्वेन भिद्यते । सर्व्वत्रार्थो निषेध्यानुपलम्भलक्षणो न भिद्यते तस्यैव सर्व्वत्र प्रतिपाद्यत्वात् । ( ९० )
विरुद्धं तच्च सोपायमविधायापिधाय च । प्रमाणोक्तिर्निषेधे या न साम्नायानुसारिणी ॥९१॥
या पुनर्द्विविधेनापि विरोधेन विरुद्धमर्थमभिधाय यं कञ्चिदर्थमुपदर्श्यते तनिषेध्यञ्च सहा भावनिश्चयोपायेन कारणव्यापककार्यानुपलम्भे वर्तमानमविषायात एवापिधाय च पिधानमिव पिधानं स्वरूपप्रतीतिविरोधित्वा 'दनुपलम्भः । तमकृत्वा कारणाद्यनुपलम्भाप्रदर्शनात्तदुपलम्भसंभावना न व्याहतैव । एवं
' विरुद्धोपलब्धि |
* स्वभावविरुद्धकार्योपलब्धिः । कारणविरुद्धकार्योपलब्धिश्च ।
सांख्येन प्रतिबन्धान्तरं विरोध इष्टस्तादात्म्यतदुत्पत्तिभ्यामस्यासंग्रहादिति सोत्र स्वभावानुपलम्भेऽन्तर्भावितो विरोधस्यापि दृश्यानुपलम्भबलावेब सिद्धेः । तीर्थ्यास्तु विना विरुद्धविधिमनुपलम्भञ्च स्वतो निवृत्तेरित्याहुस्तानाह । या पुनरित्यादि ।
• क्रियते प्रमाणोक्तिः । अकृत्वा ।
" सहानवस्थानपरस्परपरिहारविरोधाभ्यां ।
* उपलब्धिलक्षणप्राप्तस्यानुपलब्धिमकृत्वाऽप्रदर्श्य ।