SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ अनुपलब्धिचिन्ता १४३ प्रतिषेधस्तु यत्र साक्षान्निषेध्यानुपलब्धिव्वरुद्धा ह्यपलब्धिर्व्वा दर्श्यते तत्र सर्व्वत्रानुपलम्भतः साध्यते । यस्मात्प्रमाणैरर्थस्य सिद्धि वदतामर्थात्सामार्थ्यादेव विपर्ययात्प्रमाणाभावादर्थाभावः सिध्यति । (८५) ननु विरुद्धाद्युपलब्धावनुपलम्भः कथं निषेधसाधक इत्याह (1) दृष्टा विरुद्धधर्मोक्तिस्तस्य तत्कारणस्य वा । निषेधे यापि तस्यैव साऽप्रमाणत्वसूचना ॥ ८६ ॥ दृष्टा विरुद्धधर्मस्योक्तिर्या तस्य निषेध्यस्य तत्कारणस्य वा निषेषे कर्तव्ये यथा नात्र शीतस्पर्शो न वा रोमहर्षयुक्तपुरुषवानयं प्रदेशो वनेरिति (1) सापि तस्यैव निषेध्यस्यैवाप्रमाणत्वस्य प्रमाणरहितत्वस्य सूचना । विरुद्धस्य कारणविरुद्धत्वस्य चोपलम्भेन निषेध्यानुपलम्भ एव ख्याप्यते । (८६) अन्यथैकस्य धर्मस्य स्वभावोक्तया परस्य तत् । स्तित्वं न गम्येत ; अन्यर्थकस्य विरुद्धादेर्धर्मस्य स्वभावोक्त्या सत्ताप्रतिपादनेन परस्य निषेध्यस्य तन्नास्तित्वं सिसाधयि' षितं केन कारणेन गम्येत । न ह्यन्यसत्त्वेऽपरस्य सत्वाभावो - तिप्रसङ्गात् । अनिषिद्धोपलब्धेरभावासिद्धेः ॥ विरोधाचेदसावपि ॥ ८ सिद्धः केन ; अथ यन्निषिध्यतेः यन्वोपदर्श्यते तयोव्विरोषात् सहानवस्थानलक्षणादेकभाasन्याभाव इति चेत् । नन्वसावपि (८७) विरोधः केन प्रकारेण सिद्धः ॥ असहस्थानादिति चेत् तत् कुतो मतम । दृश्यस्य दर्शनाभावादिति चेत् साऽप्रमाणता ॥८८॥ द्वयोः सहानवस्थानाद्विरोषः सिद्ध इति चेत् । तत्सहानवस्थानं कुतो हेतोर्मतं येन विरोधयवस्था । अविकलकारणस्य प्रवर्तमानस्य दृश्यस्यान्यभावेऽदर्शनात् सहानवस्थानगतिरिति चेत् । ननु यदेवादर्शनं सा ( s) प्रमाणता प्रमाणरहितता' ऽनुपलब्धिरित्यर्थः । (८८) तस्मात् स्वशब्देनोक्ताऽपि साऽभावस्य प्रसाधिका । यस्याप्रमाणं साऽवाच्यो निषेधस्तेन सर्वथा ॥ ८९ ॥ १ प्रमाणेन ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy