________________
१४२
प्र० वा० वृत्तौ (२ परिच्छेदः) लिङ्गिनोराभासः साक्षात् स्वरूपप्रतिभासः। तच्छून्य' योरपि लिङ्गलिङ्गिवस्तुनि 27a अवञ्चनं सम्वादनं । (८२)
ननु लिङ्गबुद्धेरपि लिङ्गिबुद्धित्वात् पृथक् उपादानमनर्थकं (1) नानर्थकं । प्रत्यक्षमुद्भूतविकल्पो वा तबुद्धिरिति विप्रतिपत्तिनिरासार्थत्वात् । यदि प्रमाणे लिङ्गलिङ्गिधियौ तदा प्रत्यक्षवदभ्रान्ते स्यातामित्याह (1)
तद्रूपाध्यवसायाच्च तयोस्तद्रूपशून्ययोः।
तद्रूपावञ्चकत्वेपि कृता भ्रान्तिव्यवस्थितिः ॥८३॥ · तयोर्द्वयोः तद्रूपस्य लिङ्गलिङ्गिरूपस्याध्यवसायात् प्रवर्तने सति वस्तुनि परम्परया तत्प्रतिबद्धतया च तद्रूपस्यावञ्चकत्वे सम्वादकत्वेपि भ्रान्तिव्यवस्थितिः कृता। कस्मादित्याह तद्रूपशून्ययोः। न हि लिङ्गलिङ्गिस्वरूपप्रतिभासिन्यौ धियाविमे स्वप्रतिभासेऽनर्थेऽर्थाध्यावसायेन प्रवृत्तत्वात्। (८३)
तस्माद् वस्तुनि बोद्धव्ये व्यापकं व्याप्यचेतसः
निमित्तं तत्स्वभावो वा कारणं, तच्च तद्धियः ॥८४॥ तस्माद्वस्तुनि विधि ना बोद्धव्ये व्यापकं साध्यं । व्याप्यचेतसो लिङ्गबुद्धेनिमित्तं परम्परया। यस्मात्स्वभावो वा तद् व्यापकं। व्याप्यस्य यथानित्यत्वं कृतकत्वस्य। कारणम्वा दहनो धूमस्य। तच्च व्याप्यचेतसस्तद्धियः स्वभावकारणधियो निमित्तमिति तयाध्यवसितस्य सम्वादनियमः सम्वादित्वमेवं प्रत्यक्षस्यापि प्रामाण्यलक्षणं। (८४)
(२) अनुपलब्धिचिन्ता* प्रतिषेधस्तु सर्वत्र साध्यतेऽनुपलम्भतः । सिद्धिं प्रमाणैर्वदतामर्थादेव विपर्ययात् ।।८५॥
? प्रत्यक्षेण धूमादिः प्रतीयते न तस्य लिङ्गतापि निविकल्पेन।
१ वासनाप्रबोधात्तयोः कल्पनं वह्निर्न भात्येव लिङ्गत्वेनापि न भानं धूमस्यैव भानात्।
२ परम्परया वस्त्वविसंवादात्। ? वस्तुनि । ३ विधिद्वारेण, न प्रतिषेधमुखेन। ४ सद्व्यापकबलेन लिङ्गबुद्धयुत्पत्तेः। ? निमित्तं। ' स्वलक्षणेन जनितं । स्वलक्षणव्यवस्थापकञ्च। *द्रष्टव्यं परिशिष्टं ११८