________________
.. . अनुमानचिन्ता .. स्यादेतद् (।) अ (न्य) त्रावस्तुनि सामान्येऽनित्यतादिसम्बन्धिनि सिध्यत्यन्यस्य वस्तुनोनित्यरूपस्य न सिद्धिरिति चेत् । नैतद्युक्तं तपस्यैव वस्तुनः तस्यैवा-.. नित्यरूपस्याध्यवसाय वशेनानुमानात् प्रसिद्धितः। (८०)
. अ. लिङ्गधीसंवादकता कथं पुनर्वस्त्वध्यवसायेऽपि तत्सम्वाद कतेत्याह (1)
. यो हि भावो यथाभूतो स तालिङ्गचेतसः।। ... हेतुस्तज्जा तथाभूते तस्माद् वस्तुनि लिङ्गिधीः ॥८१॥
यो हि साध्यधर्मो यथाभूतः का रणव्यापकस्वभावः स तादृशः कारणकार्यतया व्यापकव्याप्यतया गृहीतव्याप्तिकस्य लिङ्गस्य चेतसः परंपराहेतुः। तज्जा तस्मा•ल्लिङ्गचेतसो जाता। तथाभूते वस्तुनि कारणव्यापकरूप. साध्यधर्मे लिङ्गियी। तस्मात्परंपरया साध्यप्रतिबन्धात् लिङ्गिधीः सत्येव वस्तुनि भवन्ती तत्सम्बा प्रमाणमेव । (८१)
ननु लिङ्गमपि लिङ्गिवत्सामान्यमेव। तथा धूमः कृतकं वेत्येव न लिङ्ग किन्तहि चह्निकार्यतयाऽनित्यत्वव्याप्यतया च गृहीतं। न च विशेषे व्याप्तिग्रहः। सामान्यञ्च नाध्यक्षगम्यं। विकल्पमात्रेण तत्प्रतीतावनाश्वासः। नैष दोषः । प्रत्यक्षेण कारणकार्ययोर्ध्यावृत्तिद्वयविशिष्टयोगृहीतयोग्विजातीयव्यावृत्त्याश्रयेणोत्पन्नविकल्पेन क्वचिदनुमानेन व्याप्तिं गृहीतवतः पश्चाद् धूमकृतकत्वादिदर्शनात्ताद्रूप्ये कार्यव्याप्यबुद्धिलिङ्गबुद्धिः (1) सा च तत्प्रतिबन्धादनुमानमेवेति नास्त्यनाश्वास (ः।) एतदेवाह (1)
1 लिङ्गलिङ्गिधियोरेवं पारम्पर्यण वस्तुनि। . . प्रतिबन्धात् तदाभासशुन्ययोरप्यवंचनम् ॥८२॥ . लिङ्गलिङ्गिषियोरेवमुक्तक्रमात् पारम्पर्यण वस्तुनि प्रतिबन्धातयोलिङ्ग
'स्वयं विलुतोपि वस्तुप्रतिबद्धजन्मतया वस्तु साधयन् प्रमाणं। वर्पणप्रतिबिम्बे तिलकादिसिद्धचा मुखे तिलकाविसिद्धिवत्।।
वह्निमाविजनकः। अनित्याकारवान् शब्दः। तल्लिङ्गयतीति तादृगलिङ्गम्। ...इति कृत्वा