________________
१४०
प्र० वा० वृत्तौ (२ परिच्छेदः) यथैकमेव स्वलक्षणं प्रत्यक्षेण विशेषदृष्टेन चानुमानेन प्रतीयते। प्रमेयस्य द्वित्वग्रहणयोनियमे प्रमाद्वित्वं स्यात् नान्यथा। येकसंख्याया अपोहो य उक्तः प्रमेयद्वित्वात् स न वा भवेत् ॥ (७८)
विषयानियमादन्यप्रमेयस्य च सम्भवात् । विषयस्य ग्रहणानियमात् यदा टेकेनापि प्रमाणेनानेकं गृह्यते तदा प्रमेयद्वित्वेप्येकमेव प्रमाणं स्यात्। प्रमेयद्वयादन्यस्य च सामान्यविशेषस्य मेयस्य सम्भवात्। त्र्यादिकम्वा तद्ग्राहकं मानं भवेत्। अत्रोच्यते (1)
योजनाद् वर्णसामान्ये नायं दोषः प्रसज्यते ॥७९॥ विकल्पकेन ज्ञानेनानित्यताया वर्णसामान्ये योजनादयं सामान्यविशेषात्मकप्रमेयग्राहकप्रमाणान्तराभ्युपगमलक्षणो दोषो न प्रसज्यते। न हि विशेषोऽनित्यतया योज्यते विकल्पानामतद्विषयत्वस्योक्तेर्व्वक्ष्यमाणत्वाच्च । (७९)
म. अनित्यादयो नावस्तुधर्माः ___ ननु वर्णसामान्यस्यावस्तुत्वात्तद्योजिताऽनित्यतादयोऽवस्तु धर्माः स्युरित्याह (1)
नावस्तुरूपं तस्यैव तथा सिद्धे प्रसाधनात् ।
अन्यत्र नान्यसिद्धिश्चेन्न तस्यैव प्रसिद्धितः ॥८॥ नावस्तुनो रूपमनित्यत्वादि। तस्यैव वस्तुनस्तथाऽनित्यत्वादिभिराकारैः सिद्धे निश्चयस्य प्राक् प्रसाधनात्। अध्यवसायानुरोधेन हि विकल्पानां विषयव्यवस्था (1) यद्यपि चैते स्वाकारग्राहिणस्तथापि बा ह्यमेव विषयतया व्यवस्थाप्यन्ते अनाद्यभ्यासविशेषात् । अनुमानन्तु वस्तुप्रतिबद्धलिङ्गप्रभवत्वाद्यथावस्थितमेव वस्तु व्यवस्यतीति वस्त्वेव क्षणस्थितिधर्मकमस्मात्सिद्धं । ततो नावस्तुरूपमनित्यत्वादि।
१ अन्त्यमध्यक्ष प्रवाहविच्छेदे तद्विविक्तोपलम्भश्चेत्यध्यक्षद्वयजनितेन।
तदेवं प्रत्यक्षमनुमानञ्च प्रमाणे लक्षणद्वयं प्रमेयमित्याख्याय तस्य सन्धानन. प्रमाणान्तरं न च पुनः पुनरभिज्ञानेऽनिष्टासक्तेः स्मृतादिवत्य॑स्य वृत्तियत्तहीदमनित्यादिभिराकारैर्वणादि गृह्यतेऽसकृद्वेति व्याख्याता।
न तु विशेषे विशेषस्य विकल्पकेनाग्रहात् । ४ सामान्यधर्माः। ? न स्वलक्षणस्य