________________
अनुमानचिन्ता
स्वलक्षणे च प्रत्यक्षमविकल्पतया विना ।
विकल्पेन न सामान्यग्रहस्तस्मिंस्ततोऽनुमा ॥७५॥
स्वलक्षणे च प्रत्यक्षमविकल्पतया प्रवर्तते सामान्यस्य तु ग्रहो विकल्पेन बिना न भवति । ततः कारणात्तस्मिन् सामान्येऽनुमैव विकल्पिका । नाघ्यक्षमविकल्पकं ॥ (७५) ननु (1)
प्रमेयनियमे वर्णानित्यता न प्रतीयते ।
प्रमाणमन्यत् तद् बुद्धिविंना लिङ्गेन संभवात् ॥७६॥
प्रत्यक्षं स्वलक्षणविषयमनुमानं सामान्यविषयमिति प्रमेयस्य नियमे स्वीक्रियमाणे वर्णस्य नीलादे' व्विषयस्यानित्यताऽनित्यतासामान्यात्मता न प्रतीयत इति प्राप्तं । न हि सामान्यविशेषात्मकं प्रमेयं विशेषमात्रविषयेणाध्यक्षेण सामान्यमात्रविष येणानुमानेन वा प्रत्येतुं शक्यं । प्रतीयते चातस्तद्बुद्धिप्रमाणमन्यत् स्यात् । न प्रत्यक्षं सामान्यस्य ग्रहणात् । नाप्यनुमानं विना लिङ्गेन सम्भवात् । विशेषस्यापि ग्रहणाच्च । (७६)
तथा (1)
१३८
• विशेषदृष्टे लिङ्गस्य सम्बन्धस्याप्रसिद्धितः । तत्प्रमाणान्तरं मेयबहुस्वाद बहुतापि वा ॥७७॥
विशेषवृष्ट प्रत्यक्षेणाग्निं दृष्ट्वा क्रमात्तमेव घूमाल्लिङ्गात् स एवायं वह्निरिति निश्चिनोत्यनुमानेन । लिङ्गस्य सम्बन्धासिद्धितः तत्प्रमाणान्तरं स्यात् । न हि तत्प्रत्यक्षं लिङ्ग बलादुत्पत्तेः । नाप्यनुमानं दहनघूम" विशेषयोः सम्बन्धाग्रहणात्। तस्मात् मेयानां प्रत्यक्षं लक्षणं सामान्यं सामान्यविशेषाणां बहुत्वात् बहुतापि वा (७७)
प्रमाणानामनेकस्य वृत्तेरेकत्र वा यथा ।
विशेषदृष्टेरे कत्रिसंख्यापोहो न वा भवेत् ॥७८॥
प्रमाणानां स्यात्। अनेकस्य वा प्रमाणस्यैकत्र विषये वृत्तेः प्रमाणबहुता स्यात् ।
१ अन्यक्षणे नाशं वृष्ट्वा । आविना शब्वस्यान्त्यक्षणस्यानित्यता । तथा हि शब्दादि स्वलक्षणं । अनित्यतादि सामान्यं । अनयोः संकरेण ग्रहणात् प्रमेयान्तरमेतत् । * अनित्यः शब्द इत्येकां बुद्धि मन्यते । असकृद्वेति [ प्रमाण ] समुवयं व्याचष्टे । विशेषदष्टे च यज्ज्ञानं तवपि प्रमान्तरमित्याह ।
* न सकृद्वृत्तेन समाप्तिः किन्तु तत्र पुनर्मानवृत्तिः समयान्तरे । * पर्व्वतवत्तधूमेन वनेः सम्बन्धासिद्धेः ।