________________
१३८
प्र० वा० वृत्तौ (२ परिच्छेदः)
तस्माद् दृश्यानुपलब्धिरर्थाभाव एव भवतीति तत्प्रभवाऽभावप्रतीतिरविसम्वादिनी । तस्मात्साध्यप्रतिबद्धलिङ्गं प्रसूतत्वात् त्रिविधलिङ्गजेप्यनुमाने नास्त्यनाश्वासः। (७२)
च, अनुमानं त्रिविधम्
छ. तत्र चार्वाकमतनिरास:
अप्रामाण्ये च सामान्यबुद्धेस्तल्लोप आगतः । प्रेत्यभाववद्;
aar card सामान्यबुद्धरिष्यमाणे तस्य परोक्षस्यार्थस्यानुमानव्यवस्थाप्यमानस्य लोपोऽभाव आगतः । प्रेत्यभाववत् परलोकस्येव। यदि हि प्रत्यक्षमेकं प्रमाणं तदा यत्र तन्न प्रवर्तते तस्याप्य भाव एव स्यात् । न चैतदस्ति । न हि चा र्व्वा को देशान्तरस्थं स्वपितरमनुपलभमानस्तदभावं व्यवस्थापयितुमर्हति ।
स्यादेतत् (1)
अक्षैस्तत् पर्यायेण प्रतीयते ॥७३॥
नोपलभ्यमानमेवास्ति किन्तु पर्य्यायेण परिपाट्याऽक्षैर्यत् प्रतीयते तदप्यस्ति चेत्। पित्रादयश्चोपलब्धा उपलप्स्यन्ते चेति सन्त्येव । ( ७३ ) तच्च नेन्द्रियशक्त्यादावचबुद्धेरसम्भवात् । अभावप्रतिपत्तौ स्याद् बुद्धेर्जन्मानिमित्तकम् ॥७४॥
तच्च न युक्तं इन्द्रियाख्यायां शक्तावादिग्रहणादाहारादेः क्षुदुपघातादिसामर्थ्य च पर्य्यायेणापीन्द्रियबुद्धेरसम्भवादभावप्रतीतौ सत्यां प्रत्यक्षाया बुद्धेर्जन्मानिमित्तकं स्यात् । न हि दृष्टमात्रेभ्यो विषयालोकमनस्कारचक्षुर्गोल' केभ्योऽध्यक्षजन्म सत्स्वपि तेष्वभावात् व्यतिरेकादतिरिक्तं किञ्चिददृश्यं कारणमिष्यते यस्येन्द्रियमिति व्यपदेशः । तस्य पर्यायेणापि नाध्यक्षं ग्राहकमस्तीत्यभावः स्यात् । ततश्चाकारण कं प्रत्यक्षजन्म प्राप्तं । अहेतोश्च नित्यं सत्वमसत्त्वम्वा स्यादि (१८२) त्युक्तं । (७४)
ज. प्रत्यक्षान्न सामान्यप्रतीतिः
स्यादेतत् (1) प्रत्यक्षादेव सामान्यप्रतीतिर्भविष्यति किमनुमानेनेत्याह (1)
१ एवञ्च कारकं तत् ज्ञापकञ्चेष्यते । २ अनित्यः शब्द इत्येकां बुद्धि मन्यते ।
असकलकारणं ।