________________
अनुमानचिन्ता व्यभिचारतः सम्वादेनाश्वास इति चेत् । लिङ्गस्य दुष्टिमन्तिरलिङ्ग एवं लिङ्गबुद्धिस्तस्या एतल्लिङ्गमीवृशं व्यभिचारि भवतः प्रतिभाति। न खलु त्रिविध लिङ्गं साध्यव्यभिचारि। यच्च व्यभिचारि तत्रिविध व न भवति । (६९) . एतदेवाह (1)
यतः कदाचित्सिद्धाऽस्य प्रतीतिर्वस्तुनः क्वचित् । - तदवश्यं ततो जातं तत्स्वभावोपि वा भवेत् ॥७०॥
यतो वस्तुनो धूमशिंशपादेः लिङ्गादस्य साध्यस्य वहिवृक्षादेः क्वचिद्धर्मिणि कदाचिदनुमानकाले प्रतीतिः सिद्धा तद् धूमादिकं ततो वक़्यादेरवश्यं जातं। तच्छिंशपादिकं तस्य वृक्षस्य स्वभावोपि वाऽवश्यम्भवेत् । (७०) ____नच कार्यस्वभावयोः कारणव्यापकव्यभिचारो यस्मात् (1)
स्वनिमित्तात् स्वभावाद् वा विना नार्थस्य सम्भवः ।
यच्च रूपं तयोदृष्टं तेदवान्यत्र लक्षणम् ॥७॥ स्वस्य निमित्तात्कारणाद्विना, स्वभावाद व्यापकाद्वा विनार्थस्य कार्यस्य 26a व्याप्यस्य च न सम्भवः। तदुत्पाद्यत्वात्तद्रूपत्वाच्च । ततस्तदाश्रयेणोत्पन्नाऽनुमानप्रतीतिरव्यभिचारिण्येव यच्च तयो मशिंशपयो रूपं साध्यकार्यस्वभाव त्वस्याव्यभिचारनिमित्तं दृष्टं तदेवान्यत्रापि हेतौ लक्षाणं बोदव्यं । न च तत्पुत्रत्वं श्यामत्वस्य कार्य स्वभावो वा ततो यद् व्यभिचारि तदलिङ्गमेव । (७१)
ङ. अनुपलब्धेः प्रतिबन्धः .. अनुपलब्धेरव्यभिचार दर्शयितुमाह (1)
स्वभावे स्वनिमित्ते वा दृश्ये दर्शनहेतुषु। ... - अन्येषु सत्स्वदृश्ये च सत्ता वा तद्वतः कथम् ॥७२॥
प्रतिषेधस्य स्वभावे स्वस्य निषेध्यात्मनो निमित्ते का रणे। दृश्ये दर्शनयोग्ये वर्शनस्य हेतुष्विन्द्रियमनस्कारादिष्वन्येषु सत्सु विद्यमानेषुदृश्यऽनुपलभ्यमाने च तद्वतो दृश्यानुपलम्भवतो भावस्य सत्ता वा कथं युज्यते। न हि सत्स्वन्येषूपलम्भप्रत्ययेषु दृश्यस्य सतः कदाचिदनुपलम्भसम्भवः ।
, 'साध्येन सह कार्यस्य स्वभावस्य चाम्यभिचारनिमित्तं । 'सत्स्वप्यन्येषु ज्ञानानुत्पादात् 'सर्वथा नैवेत्यर्थः ।
१८