________________
१३६
प्र० वा० वृत्ती (२ परिच्छेदः)
अभावे विनिवृत्तिश्चेत् प्रत्यक्षस्यैव निश्चयः । विरुद्धं सैव वा लिङ्गमन्वयव्यतिरेकिणी ||६७||
प्रत्यक्षस्यैव प्रवृत्तिर्भावे सत्त्वनिश्चयो विनिवृत्तिश्चाभावे निश्चयो न तु प्रमाणान्तरवृत्तिरिति चेत् । " विरुद्धमिदं यः प्रत्यक्षाभावान्निश्चयः स प्रत्यक्षादिति । न हि प्रत्यक्षन्निवृत्त्योरैकात्म्यं तथा ह्यभावो भाव एव स्यात् । 'भावोपि चाभावः । न च प्रत्यक्षनिवृत्तावप्यवश्यमभावः । व्यवधानादिष्वर्थसत्त्वेपि तस्याभावात् । अथार्थान्वयव्यतिरेकानुविधायिनी प्रत्यक्षनिवृत्तिरेकज्ञानसंसर्गिपदार्थान्तरोपलब्धिरूपाऽभावनिश्चयहेतुस्तदा सैव प्रत्यक्षनिवृत्तिरनुपलब्ध्याख्यान्वयव्यतिरेकिणी लिङ्गमिति तज्जा प्रतीतिरनुमानमेवेति कथं नाप्रत्यक्षं प्रमाणं । (६७)
ग. प्रमाणद्वयसिद्धिः
किञ्च (1)
सिद्धं च परचैतन्यप्रतिपत्तेः प्रमाद्वयम् ।
परचैतन्यप्रतिपत्तेः प्रमाणद्वयं सिद्धं । न हि प्रत्यक्षादवग्दर्शनः परचैतन्यम-. वैति । किन्तु स्वसन्ताने बुद्धिपूर्वकत्वेनोपलब्धचेष्टादिदर्शनात्तदनुमानं परचित्तनिश्चयः किमस्तीत्याह (1)
व्यवहारादौ प्रवृत्तेश्च सिद्धस्तद्भावनिश्चयः ॥६८॥
परस्परप्रेषणाध्येषणव्यवहारादौ प्रवृत्तेश्च सिद्धश्च तस्याः परचैतन्यप्रतिपत्ते - र्भावनिश्चयः । (६८)
घ. अविसंवादादनुमानं प्रमाणम्
नन्वनुमानाभिमता प्रतीतिर्नास्त्येवेति न ब्रूमः । किन्तु प्रामाण्ये तस्याः विप्रतिपद्यामह इत्याह (1)
प्रमाणमविसंवादात् तत् क्वचिद् व्यभिचारतः । नाश्वास इति चेल्लिङ्गं दु ष्टितदीदृशम् ॥६९॥
प्रमाणन्तदनुमानमविसम्वादात् । प्रत्यक्षमपि हि सम्वादकत्वात् प्रमाणं तच्चानुमानस्यापि समानं । क्वचिच्छ्यामतादिसाधनार्थमुपात्ते तत्पुत्रादौ लिङ्गे
१
प्रत्यक्षनिवृत्त्याभावस्य निश्चयश्च स्यात् ।
* ऐकात्म्यभाव एव स्यात् ।
? अवैति ।
२ स्ववचनविरुद्धं ।
स्वपुत्रादौ ।