________________
अनुमानचिन्ता
___ १३५ ख. द्वितीय प्रमाणमनुमानम् ज्येकसंख्यानिरासो वा प्रमेयद्वयदर्शनात् । तच्च द्विविधमिति तद्ग्राहकं द्वयमपि प्रमाणमेव प्रमेयद्वयस्य वर्शनात् । त्र्येकसंख्यानिरासो वा बोद्धव्यः (1) तृतीयादिकं न प्रमाणं तृतीयादिप्रमेयाभावात्। नाप्येक द्वितीयस्य प्रमेयस्य तेनानधिगतेः। न हि प्रत्यक्षं स्वलक्षणसामर्थ्यात् तदा- 256 कारग्राहि जातं सामान्यं प्रत्येति कल्पनागम्यत्वात्तस्य ।
. एकमेवाप्रमेयत्वादसतश्चेन्मतं च नः ॥६४॥ ननु प्रत्यक्षमेकमेव प्रमाणमसतोप्रमेयत्वात्। असच्च सामान्यमत्राह (1) असतोप्रमेयत्वं म'तञ्च नः। (६४) ..अनेकान्तोऽप्रमेयत्वेऽसद्भावस्य विनिश्चयः।
तनिश्चयप्रमाणं वा द्वितीयं ; किमनिष्टमापद्यते। स्वलक्षणमेव तु पररूपेण गतेः सामान्यलक्षणमिष्टं। तच्च सदेवेति कथमप्रमेयं ततस्तत्साधनमपि प्रमाणमेव । तथाऽसतोऽप्रमेयत्वे साध्येऽसत्त्वादिति हेतुरनेकान्लोपि। तथा' हि परलोकादेरसत्तया चार्वा के णापीष्यत एव केनापि प्रमाणेन निश्चयः। अथवा प्रमेयत्वाभावस्याप्यसत्त्वहेतुनव निश्चय इति व्यक्तमनैकान्तिकत्वं। अतश्च यत एव प्रमाणातस्याभावस्य निश्चयस्तदेवद्वितीयम्प्रमाणमनुमानं नाध्यक्षं। . कस्मादेवमित्याह (1)
नाक्षजा मतिः ॥६५॥ अभावेऽर्थबलाज्जोतेरर्थशक्त्यनपेक्षणे।
व्यवधानादिमावेपि जायेतेन्द्रियजा मतिः ॥६६॥ 'ना'मजा मतिरभावे विषये प्रवर्ततेऽर्थस्य ग्राह्यस्य बलाज्जातेः। यदलेन प्रत्यक्ष प्रवर्तते तदेव प्रतिपद्यते न चाभावस्य सामर्थ्य नाम। यदि पुनरर्थसामर्थ्यानपेक्षणमस्य तदा ग्राह्यस्यार्थस्य शक्त्यनपेक्षणे तद्व्यवधानादिभावेपीन्द्रियजा मति-. र्जायेत । न चैतदस्ति । ततोऽर्थसामर्थ्यापेक्षि नाभावविषयं भवितुमर्हति । (६५,६६)
स्यादेतत् (0)
चाकिं प्रति सिद्धसाधनमाह ? तत्सत्तामात्रस्य। परलोकादेः प्रत्यक्षादेवाभावनिश्चयोऽस्तीत्याह। 'प्रत्यवं निश्चिनोति।