________________
प्र० वा० वृत्तौ (२ परिच्छेदः)
अर्थसामर्थ्याज्जायमाना बुद्धिर्यत्रान्वयव्यतिरेकिणी तत्स्वलक्षणन्तस्य ग्रहणमपराश्रयं स्वरूपग्रहणं स्वजन्ययाऽर्थस्वरूपया बुद्ध्या साक्षात्तस्य ग्रहणात् । अतः स्वलक्षणत्वादन्यद्वस्तु यदन्वयव्यतिरेको नानुकरोति बुद्धिः साक्षादप्रतिभासमानं केवलमध्यवसायविषयः तत्सामान्यलक्षणमतीन्द्रियं बुद्धिष्वप्रतिभा' सनात् ( ५९ ) । कथन्तत्प्रत्येतव्यमित्याह ( 1 )
१३४
तस्यादृष्टात्मरूपस्य गतेरन्योर्थ आश्रयः ।
तदाश्रयेण सम्बन्धी यदि स्याद् गमकस्तदा ॥ ६०॥
तस्य सामान्यस्य स्वलक्षणविशेषेण स्वलक्षणविवेकेनादृष्टात्मरूपस्य' गतेः प्रतीतेः तस्मादन्योऽर्थो लिङ्गभूत आश्रयः सिद्धिनिमित्तं यदि ततः प्रत्येतव्येनानग्निव्यवच्छेदादिना तदाश्रयेण च धर्मिणा सम्बन्धी सम्बन्धवान् स्यात्तदा गमको नान्यथा । अनेन साध्यप्रतिबन्धोऽन्वयव्यतिरेकरूपः पक्षधर्मता च लिङ्गस्योक्ता ( ६० ) ।
नन्वन्याश्रयेण च स्वरूपप्रतीतिर्भविष्यति तथापि परोक्षता कथमित्याह ( । ) गमकानुगसामान्यरूपेणैव तदा गतिः ।
तस्मात् सर्वः परोक्षोर्थो विशेषेण न गम्यते ॥ ६१ ॥
तदाऽर्थान्तरात्प्रतीतिकाले गमकं पक्षसपक्षानुयायि लिङ्गं । तदनुयायिना तद्व्यापकेन सामान्यरूपेणैव परोक्षोऽर्थो गम्यते । न तु सर्व्वतो व्यावृत्तेन विशिष्टेन रूपेण । तस्मात्सर्वः परोक्षोऽर्थः प्रतीयमानो न विशेषेण कथञ्चिद् गम्यते येन परोक्षताहानिः स्यात् । (६१)
या च सम्बन्धिनो धर्माद् भूतिर्धर्मिणि ज्ञायते । सानुमानं परोक्षाणामेकान्तेनैव साधनम् ॥६२॥
या च सम्बन्धिनो धर्मादन्वयव्यतिरेकतो लिङ्गात् तदाश्रये धर्मिणि ज्ञायते परोक्षार्थप्रतीतिः सानुमानं त्रिरूपलि' ङ्गप्रभवत्त्वात् । तदेवानुमानं परोक्षाणामेकान्तेनैव साधनं । प्रत्यक्षस्य तत्रावृत्तेः । (६२)
- न प्रत्यक्ष परोक्षाभ्यां मेयस्यान्यस्य सम्भवः । तस्मात् प्रमेयद्वित्वेन प्रमाणद्वित्वमिष्यते ॥ ६३ ॥
मु- बृहद्ध
न च प्रत्यक्षपरोक्षाभ्यामन्यस्य प्रमेयस्य सम्भव इति दर्शितं प्राक् । तस्मात्प्रमेयस्य द्वित्वेन प्रमाणद्वित्वमिष्यते प्रमेयमधिगच्छत् प्रमाणमुच्यते । (६३)
१ साक्षान्न गतिः । तत्सत्तामात्रस्य । * हेतुसत्तयैव साध्यसत्त्वात् ।
? तस्यैव
क्षणज्ञानस्य ।