________________
१३३
अनुमानचिन्ता मत्रोच्यते।
अभिप्रायाविसंवादादपि भ्रान्तेः प्रमाणता ।*
गतिरप्यन्यथा दृष्टा; भ्रान्तेरपि प्रमाणता। अभिप्रायस्यार्थक्रियाथिभिः ज्ञानगोचरतयाऽभिप्रायविष'यीकृतस्यार्थक्रियासमर्थस्यार्थस्य संवादात् । अर्थक्रियार्थिनो हि तत्साधनसमर्थार्थप्रापक' प्रमाणमिच्छन्ति । अन्यथा पररूपेण मतिरपि काचिदभिप्रेतार्थसम्वादिका दृष्टेति प्रमाणमेव। नन्वनुमानं वस्त्वेव गृह्णत् प्रमाणमस्तु किं भ्रान्तिरिष्यत इत्याह।
पक्षश्चायं कृतोत्तरः ॥५६॥ पक्षश्चायं प्रागेव नतद्वस्तु अभिधेयत्वादित्यादिना (२०११) कृतोत्तरः। (५६) ननु भ्रान्तमपि यद्यनुमानं प्रमाणं तदा सर्वंव भ्रान्तिः प्रमाणं स्यादित्याह।
**मणिप्रदीपप्रभयोमणिबुद्धचाभिधावतोः। ष.." - मिथ्यानानाविशेषेपि विशेषोर्थक्रियां प्रति ॥५॥ ___ मणिप्रदीपयोर्ये प्रभे तयोर्मणिबुडया मणिरेवायमित्यध्यवसायेन तद्ग्रहणार्थ धावतो मिथ्याज्ञानस्य भ्रान्तत्व स्याविशेषेपि विशेषोऽयक्रियाम्प्रति। मणिप्रभायामप्यध्यवसायी मणिसाध्यामर्थक्रियां प्राप्नोति। (५७)
यथा तथाऽयथार्थत्वेप्यनुमानतदाभयोः । ... ..
अर्थक्रियानुरोधेन प्रमाणत्वं व्यवस्थितम् ॥५८॥ दीपप्रभायान्तु मणिव्यवसायी तन्न प्राप्नोतीति यथा तथा त्रिरूपलिङ्गजमनुमानं । तदाभञ्च तन्न न तथा। तयोः स्वाकारे बाह्याध्यवसायप्रवृत्तत्वात् अयथार्थत्वेपि प्रमाणत्वं व्यवस्थितं । विशेषेणावस्थितमयक्रियानुरोधेनानुमानमेव प्रमाणं। परम्परया.दुत्पत्तेः तत्प्रापकत्वात्। नेतरद्विपर्ययात्। तस्मात्प्रमेयद्वित्वं गतिभेदात्। (५८) तयोर्लक्षणं ग्रहणञ्चाख्यातुमाह । ..
बुद्धिर्यत्रार्थसामर्थ्यादन्वयव्यतिरेकिणी। तस्य स्वतंत्र ग्रहणमतोऽन्यद् वस्त्वतीन्द्रियम् ॥५९॥
* द्रष्टव्यं परिशिष्टं ११११
'प्रवृत्तिविषयस्य ।