SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ TRINApward प्र० वा. वृत्तौ (२ परिच्छेदः) - मेयं त्वेकं स्वलक्षणम् ॥५३॥ किन्तु भाववासनाप्रबोधप्रसूतविकल्पकल्पितत्वात् परमार्थतो मेयं त्वेकं स्वलमणं। तस्यैव रूपबुद्ध्युत्पादकत्वात्। (५३) तस्मादर्थक्रियासिद्धेः सदसत्ताविचारणात् ॥ 25a सामान्यस्य तु कल्पि'तत्वात्। सामर्थ्याभावात्स्वलक्षणमेकं प्रमेयं तस्माद क्रियासिद्धेः। अर्थक्रियाथिभिः सदसत्ताभ्यां तस्यैव विचारणात्। असत्त्वमपि स्वलक्षण स्यैव विचिन्त्यते। यद्येकमेव प्रमेयं तदा चार्येण प्रमेयद्वैविध्यं यदुक्तं न स्वसामान्यलक्षणाभ्यामन्यत्प्रमेयमस्तीति तद् विरुध्यते इत्याह । वसं१३१० तस्य स्वपररूपाभ्यां गतेर्मेयद्वयं मतम् ॥५४॥ तस्य स्वलक्षणस्य प्रत्यक्षतः स्वरूपेणानुमानतः पररूपेण सामान्याकारेण .. ..... गर्मेयहां मतं न तु भूतसामान्यस्य सत्त्वात् (५४) । ४. अनुमानचिन्ता (१) अनुमानसिद्धिः क. प्रान्तमनुमानं प्रमाणम् अयथाभिनिवेशेन द्वितीया भ्रान्तिरिष्यते । या च द्वितीया पररूपेण गति रयथाभिनिवेशेन भ्रान्तिरिष्यते साऽनुमानं यथाऽर्थोस्ति यथा वा स्वाकारस्तथा नाभिनिविशते किन्तु स्वाकारं बाह्यं साधारणतया मन्यते। गतिश्चेत् पररूपेण न च भ्रान्तेः प्रमाणता ॥५५॥ नन्वनुमानं पररूपेण गतिश्चेत् तदा भ्रान्तिरेव। न च भ्रान्तेः प्रमाणतेष्यते मृगतृष्णादेरिव । (५५) 'यत एवं नान्यदर्थक्रियामम। व्याप्तिः पक्षधर्मता चेत्यत्र नेदं वाच्यं। अन्वयव्यतिरेकपक्षधर्मताकालेपि म वाच्यं । अन्वयव्यतिरेकमात्रे तु वाच्यं। अस्ति न वेति कृत्वा। दृष्टत्वात दिग्नागेन।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy