________________
सामान्यचिन्ता
१३१ सामान्यं त्रिविधं, तञ्च भावाभावोभयाश्रयात् ॥५१॥ . सामान्यं तच्च त्रिविधं बोद्धव्यं भावाभावोभयाश्रयात्। किञ्चिद् भावोपादानं सामान्यं यथा रूपादीन् भावानाश्रित्य कृतकत्वादिशब्दवाच्यं लिङ्गं । अभावोपादानं यथोपलब्धिलक्षणप्राप्तस्यासतोऽनुपलब्धिरनुत्पत्तिमत्त्वादि च। तद्धयभावाश्रयं सामान्यं लिङ्ग। उभयाश्रयमनुपलब्धिमात्र ज्ञेयत्वादि च भावाभावसाधरणत्वात्। (५१)
यदि भावाश्रयं ज्ञानं भावे भावानुबन्धतः ।
नोकोत्तरत्वाद् दृष्टत्वाद् ; अतीतादिषु चान्यथा ॥५२॥ यदि किञ्चित्सामान्यं भावाभयं तत् ज्ञानं तद्भावे भावविषयं प्राप्नोति । भावानुबन्धतो भावान्वयव्यतिरेकानुविधानात्। नतद्युक्तं न तद्वस्तु। अभि'धेयत्वादिनोक्तोत्तरत्वात्। निषिद्धं हि सामान्यस्य वस्तुत्वमनन्तरमेव प्रपञ्चेनेत्यनुमानबाधितत्वं प्रतिज्ञा याः। दृष्टत्वात् । अतीतादिषु चान्यथा वस्तुव्यतिरेकेणैवासीद् घटो भविष्यति चेति सामान्यबुद्धिरुत्पद्यते इत्यसिद्धतापि भावानुबन्धत इति हेतोः। (५२)
भावधर्मत्यहानिश्चेद् भावग्रहणपूर्वकम् । - तज्ज्ञानमित्यदोषोयं ;
वस्तु विना सामान्यबुद्धधुत्पादे भावधर्मत्वहानिः सामान्यस्य प्रसज्यते चेत। भावस्य रूपादेब्रहणपूर्वकं तस्य सामान्यस्य साधारणबाह्यरूपतयाऽध्यवसितबुद्धयाकारलक्षणस्याध्यवसायेनं ज्ञानमित्ययमवस्तु'धर्मत्वलक्षणोऽदोषो बोषो न भवति । न हि सामान्यं रूपादिरिव भावरूपतया ज्ञानविषय इति भावधर्म इष्टं।
पंक्तिसेनादिवत्। ___कि पिशाचादयोऽत्यन्तमसन्तोऽय सन्तोपि नेक्यन्त इत्युभयोपादानत्वं प्रत्येत मानधर्ममुक्त्वा विषयधर्ममाह ज्ञेयत्वादि।
यद्यपि भावानुविधानं पारम्पर्येण तथापि न साक्षाद्वस्तुविषयत्वं सिध्यति ।
४ भावविषयत्वमिति परप्रतिज्ञाऽभिषेयत्वादिनानुमानेन बाध्यते। परंपरया भावानुविधानेपि न साक्षावस्तुविषयता सिद्धचति। .
" रूपाहितवासनामाश्रित्योत्पत्तः। 'वस्तुधर्मत्वहान्या। । .?भावस्य सत्वे भवत् । भावाश्रयत्वात्। ?रूपादिरिव।