________________
१३०
प्र० वा. वृत्तौ (२ परिच्छेदः) ननु सन्त्यपीन्द्रियाणि नोपलभ्यन्ते । ततोऽत्रानुपलम्भादसत्वं न। न हीन्द्रियाणि स्वग्राहिणि ज्ञाने प्रत्यवभासमानत्वात् सन्तीष्यन्ते (1) किन्तहि (1) सत्स्वपि विषयमनस्कारादिषु कदाचित्प्रवर्तते ज्ञानं कदाचिन्नेति व्यभिचारबलादतीन्द्रियाणि कानिचिदिन्द्रियव्यपदेश्यानि व्यवस्थाप्यन्ते।
यदि नामेन्द्रियाणं स्याद् द्रष्टा भासेत तद्वपुः ॥४८॥
रूपवत्वात्; यदि त्वतीन्द्रियाणामातीन्द्रियदर्शी द्रष्टा नाम स्यात्। भासेत रूपवत्वात्तेषामिन्द्रियाणां वपुः। (४८)
न जातीनां केवलानामदर्शनात् । व्यक्तिग्रहे च तच्छ्रब्दरूपादन्यन्न दृश्यते ॥४९॥ जातीनान्तु दृश्याभिमतानां केवलानां व्यक्तिस्वरूपव्यतिरिक्तानामवर्शनावभाव एव। व्यक्तिपहे तस्या व्यक्तेः। शब्दस्य गौरित्यस्य रूपावन्यत् सामान्यं न दृश्यते। (४९)
ज्ञानमात्रार्थकरणेप्ययोग्यमत एव तत् ।
तदयोग्यतयाऽरूपं तद्धयवस्तुषु लक्षणम् ॥५०॥ अत एवादृश्यमानत्वात् ज्ञानमात्रस्यार्थस्यार्थक्रियायाः करणेप्ययोग्यमेव तत्। अन्त्या हीयं भावानामर्थक्रिया यदुत स्वज्ञानजननं। तत्राप्ययोग्यतया तत्सामान्यमरूपं निःस्वभावं। हिर्यस्मात् सर्वार्थक्रियायामशक्तत्वमवस्तुषु लक्षणं सर्वसामर्थ्यरहितं ह्यवस्त्विष्यते। (५०) तथा च सामान्यमिति न वस्तु'।
यथोक्तविपरीतं यत् तत् स्वलक्षणमिष्यते । यथोक्तासामान्याविपरीतं यत्तत्स्वलक्षणमुच्यते। इदञ्च वैपरीत्यं । अनभिधेयत्वं । तत्वान्यत्वाभ्यां वाच्यत्वं । असदर्थप्रत्ययाविशिष्टप्रतिभासविषयत्वं (1) असाधारणत्वं । संकेतस्मरणानपेक्षप्रतिपत्तिकत्वं । अन्यरूपविविक्तस्वरूपप्रतिभासवत्त्वं (1) अर्थक्रियाक्षमत्वञ्च । एतद्युक्तं स्वलक्षणमिष्यते। एतद्विपर्ययस्यावस्तुत्वसाधनस्य सामान्यलक्षणत्वात्।
यच्चा तत्कार्यव्यवच्छेदलक्षणमुक्तं (1)
'माहितवासनामाश्रित्योत्पत्तेः ।