________________
सामान्यचिन्ता
१२९ यच्च वस्तुबलाज्ज्ञानं जायते तदपेक्षते।
न सङ्केतं न सामान्यबुद्धिष्वेतद् विभाव्यते ॥४५॥ यच्च ज्ञानमिन्द्रियजं वस्तुनो रूपादेबलान्जायते तन्न संकेतमपेक्षते, बालबधिरादेरपि भावात्। सामान्यबुद्धिषु त्वेतत् संकेतानपेक्षत्वं न विभाव्यते संकेतग्रहणस्मरणापेक्षत्वात्। तस्माल वस्तुबलभाविन्यस्ता':। तथात्वे सतीन्द्रियार्थसन्निपाते क्षेपायोगात्। (४५)
याप्यभेदानुगा बुद्धिः काचिद् वस्तुद्ववेक्षणे ।
सङ्कतेन विना सार्थप्रत्यासत्तिनिवन्धना ॥४६॥ "या"पि संकेतेन विना वस्तुद्वयेणे शावलेयं दृष्ट्वा बाहुलेयं पश्यतः अभेदानुगमात् स एवायमित्यभेदमध्यवस्यन्ती `बुद्धिरुत्पद्यते शावलेयकर्कदर्शने तु नोत्पद्यते। सार्थानां शावलेयादीनामसत्यपि सामान्ये या प्रत्यासत्तिरे- .. कबुद्धधादिकार्यत्वं तनिबन्धना। (४६) सामान्यं विनैककार्यतैव न स्यादित्याह(।)
प्रत्यासत्तिविना जात्या यथेष्टा चक्षुरादिषु ।
ज्ञानकार्येषु जातिर्वा ययान्वेति विभागतः ॥४७॥ - प्रत्यासत्तिविना जात्या चक्षुरादिर्वेषां विषयालोकमनस्काराणां तेषु 24b ज्ञानकार्येषु ज्ञानहेतुषु जात्यादि विना रूपज्ञानककार्यजनकत्वं प्रत्यासत्तिर्यवेष्टा। - यथा वा शावलेयावाहुलेयादीनां कर्कादीनाञ्च तुल्ये भेदे यथा प्रत्यासत्या जात्यन्तरं विनैव विभागतो जातिरन्वेति । शावलेयबाहुलेयादिष्वेव गोत्वं समवेतं न कर्कादिषु सैवानुगामिप्रत्ययनिबन्धनमास्तामलं जात्या। (४७)
___ ग. न चक्षुरादिभिः प्रत्येयं सामान्यम् इतश्च न वस्तु सामान्यं (1)
कथञ्चिदपि विज्ञाने तद्रूपानवभासतः। दृश्यत्वेनाभिमतस्य तद्रूपस्य स्वपाहिणि विज्ञाने कथञ्चिदप्यनवभासतः।
'सामान्यबुद्धयः। .? संकेतापेक्षा न स्यात्
प्रत्यक्षं सामान्यमिति वादिनं शङ्कते। ४ सिद्धान्तयति