________________
प्र० वा० वृत्तौ (२ परिच्छेदः)
तयोस्तत्सामान्यमिति न सम्बन्धः । उपकार्योपकारकत्वाभावात् । तथासम्बन्धेऽतिप्रसङ्गात्। अस्मन्मते तु व्यावृत्तिः सामान्यं न दुष्यति । अतत्कार्यव्यावृ'तेरवस्तुत्वात्। अन्यथाऽन्यानन्यत्वपक्षोक्तो दोषः । (४२)
तस्मात् समानतैवास्मिन् सामान्येऽवस्तुलक्षणम् ।
१२८
यतः समानत्वेनावस्तुता तस्मात्समानतैवास्मिन् सामान्येऽवस्तुलक्षणं यत्सामान्यं तदवस्थितिव्याप्तिसिद्धेः । भेदेऽभेदे च वस्तुत्वायोगात् प्रकारान्तरस्य चाभावात् ।
किञ्च (1)
कार्यचेत् तदनेकं स्यान्नश्वरश्च न तन्मतम् ॥४३॥
सामान्यं कार्यमकार्यम्वा स्यात् । सम्बन्धिनीनां व्यक्तीनां कार्यञ्चेत् प्रतिव्यक्ति सामान्योक्तावनेकं स्यात् । एकञ्च सामा' न्यमिष्टं । अनेकत्वे सामान्यरूपतानाशः । नश्वरञ्च न तत्सामान्यं मतं । कार्यत्वान्नश्वरञ्च तत्प्राप्नोति कार्यत्वस्य नाशित्वेन स्वभावस्य व्याप्तेः । ( ४३ )
किञ्च (1)
_agarargear विनाशस्य न नित्यता ।
वस्तुमात्रानुबन्धित्वात् नाशस्य वस्तुनो न नित्यता स्यात् । अनित्यताविरहे तु वस्तुविरहोपि व्याप्याभावस्य व्यापकाभावनियतत्वात् ।
अथ द्वितीयः पक्षः । तदा ( 1 )
असम्बन्धश्च जातीनामकार्यत्वादरूपता ॥४४॥
अकार्यत्वात् जातीनां स्वव्यक्तिभिः सह सम्बन्धश्च न स्यात् । कार्यकारणभावाभावे तस्येदमिति सम्बन्धस्यानुत्पत्तिरित्युक्तं कार्यत्वं ह्यपेक्षेत्यभिधीयते (२।२५) इत्यत्रान्तरेऽकार्यत्वाज्जातीनामरूपता निःस्वभावता । उत्पद्यमानं हि सस्वभावं भवेन्नेतरत्। नियामकाभावेन स्वभावाभावप्रसङ्गात् । (४४ ) शाब्दप्रत्ययस्यावस्तुविषयतायामुपपत्त्यन्तरमाह ( । )
" तर्ज्जन्या यथाङगुष्ठाद् भेवस्तथा परिशिष्टानामेव । वस्तुत्वे । २ किन्तु क्षणिकता स्यात् ।
| वस्तुत्वे च सामान्यस्यानित्यतैव । अनित्यत्वेऽनेकत्वादसामान्यत्वं ।
• लोकेनासम्मतत्वादसन्मुख्यः प्रधानं कुतः । देवदत्तादिः सन्नमुल्यः