________________
सामान्यचिन्ता
सदर्थानां वस्तुविषयाणां तु श्रोत्रादीन्द्रियजातानां चेतसां नैतद्विषयसदसत्ताकालयोः साम्यं शब्दबुद्धेरिवार्थाभावे इन्द्रियबुद्धेरनुत्पत्तेः । ( ३९ ) ननु नष्टेऽनष्टेपि वस्तुनि ये शाब्दी चेतसी जायेते ।
सामान्यमात्रप्रहरणात् सामान्यं चेतसोर्द्वयोः ।
ताभ्यां सामान्यमात्रस्य ग्रहणात् । तयोर्द्वयोश्चेतसोः सामान्यं साम्यं ग्राह्यप्रतिभासकृतमस्ति । एतच्चायुक्तं यस्मात् (1)
तस्यापि केवलस्य प्राग् ग्रहणं विनिवारितम् ॥४०॥
तस्यापि सामान्यस्य केवलस्य व्यक्ति शून्यस्य ग्रहणं ( २।१४ ) प्राग्निवा - रितम् अतत्समानताऽव्यक्ती ( २।२० ) इत्यादिना (४०)
खं, व्यक्तिसामान्ययोरभेदे दोषः
भिन्नं सामान्यं निषिध्याभिन्नमपि निषेद्धुमाह (1)
परस्परविशिष्टानामविशिष्टं कथं भवेत् ।
तथा द्विरूपतायां वा तद् वस्त्वेकं कथं भवेत् ॥४१॥ परस्परविशिष्टानां विशेषाणामविशिष्टमभिन्नं रूपं कथम्भवेत् । अवश्यं हि व्यक्तीनां भेद: कथञ्चिदङ्गीकर्त्तव्यः । सत्त्वरजस्तमसामिव प्रकृतिचैत• न्ययोरिव वाऽन्यथा सामान्यमेव न स्यात् । भिन्नानामभिन्नस्य रूपस्य तत्त्वात्। ये च भिन्नस्वभावास्ते नाभिन्ना भवितुमर्हन्ति विरुद्धत्वात् । अथैकस्यापि समानमसमानञ्च द्वे रूपे । तथा द्विरूपतायां तद्वस्त्वेकं कथम्भवेत् । अन्यो हि समानादसमानः स्वभावः। अतश्च द्वे वस्तुनी स्यातां नत्वेकं द्विरूपं । ( ४१ )
अथ द्वयोरेकं तद्रूपं सामान्यं ।
ताभ्यां तदन्यदेव स्याद् यदि रूपं समं तयोः ।
यदि तयोर्द्वयोः समं समानं रूपं तदा ( । ) ताभ्यामेवान्यदेव तत्स्यात् । पृथग्भूतमेव सामान्यं भविष्यति को दोष इति चेदाह ( 1 )
तयोरिति न सम्बन्धो व्यावृत्तिस्तु न दुष्यति ॥४२॥
.१२७
9
पूर्व्वं न जातिर्जातिमदेव केवलमित्युक्तमधुना तत्र युक्तिरुच्यते । २ योपि जगत एकत्वमिच्छति तेनापि ।
3
सामान्यत्वात् ।