________________
१२६ . प्र० वा. वृत्तौ (२ परिच्छेदः)
.. यत्र रूढ्याऽसदर्थोपि जनैः शब्दो निवेशितः।
स मुख्यस्तत्र तत्साम्याद् गौणोन्यत्र स्खलद्गतिः ॥३७॥ तस्माद्यत्र' विषयेऽसवर्थो वाच्यरहितोपि शब्दो रूढया वाचकत्वेन जननिवेशितः संकेतितः स मुख्यः तत्रार्थे तत्साम्यात्। तद्विषयसादृश्यावन्यत्र स शब्दः स्खलद्वृत्तिरदृढतया प्रत्ययहेतुः । गौणः। ततश्च सदर्थविषयत्वं मुख्यत्वं असदर्थविषयत्वंञ्चामुख्यत्वमिति मुख्यगौणलक्षणमपास्तं । संकेतवशेन नियमाभावात् । (३७) - यथा भावेप्यभावाख्यां यथाकल्पनमेव वा।
कुर्यादशक्ते शक्ते वा प्रधानादिश्रुतिं जनः ॥३८॥ यथा भावेपि पुत्रादौ तत्कार्यासमर्थत्वादसत्कल्पेऽभावाख्यां शशविषाणं बन्ध्यासुत इत्यादिकां जनः कुर्य्यात्। तत्र भावेप्यमुख्योऽभावशब्दः। अभावे तु मुख्यः तथा यथा कल्पनमेव सां ख्या द्यभिमते वस्तुतोऽशक्ते प्रधानादौ शक्ते वा पुरुषादावनेककार्यसम"थै तत्साम्यात्। प्रधानादिश्रुति जनः कुर्यात् । स प्रधानशब्दोऽभा व एव मुख्यो भावे चामुख्यः। तस्मात्सदसदर्थविषयता मुख्यगौणविषयतेति. व्यभिचारिलक्षणं । (३८)
यथासंकेतमेव तु शब्दवृत्तिरिति युक्तं न चैतद्वस्तुविष (य)त्वे न्याय्यं । तथा 'हि (1) ... शब्देभ्यो यादृशी बुद्धिर्नष्टेऽनष्टेपि दृश्यते ।
तादृश्येव; शब्देभ्यो यादृशी यादृशाकारा बुद्धिः नष्ट विषये । तादृश्येवानष्टेपि विषयेऽव्याप्ततेन्द्रियस्य दृश्यते। न हि शब्दजनिता घटबुद्धिनिमीलितनयनस्य नष्टेऽनष्टे वा घटे विशिष्यते। तुल्याकारत्वात्। व्याप्तेन्द्रियस्य तु शब्दं श्रृण्व:तो या स्पष्टा बुद्धिः सा प्रत्यक्षव न शब्दकृता। तस्मादवस्तुविषयैव शाब्दी बुद्धिः ।
सर्थानां नैतच्छोत्रादिचेतसाम् ॥३९॥
____ 'सिंहादौ। पुनर्व्यभिचारमाह। अवस्तुनः कुतो भेदः ।
४ कर्तृत्वादिमारोप्य त्रिगुणीमये प्रधानकल्पना तस्य च लोकेनानिष्टरुपरतव्यापारेऽनेककार्यसमर्थेऽयं सांख्यपुरुष इति।
। सांल्यमते प्राह। 'अभिषया वाच्यत्वाभ्यामवस्तुत्वात्तत्रैवोपपत्यन्तरमाह।