________________
सामान्यचिन्ता
. सामान्यचिन्ता
१२५ किञ्च (1)
अतीतानागतेप्यर्थे सामान्यविनिबन्धनाः ।
श्रतयो निविशन्ते सदसद्धर्मः कथम्भवेत् ॥३४॥ अतीतानागतेप्यर्थे सामान्यनिबन्धना सामान्याश्रयाः श्रुतयो निविशन्ते व्यवतिष्ठन्ते। आसीत् घटो भविष्यतीत्यादयः। तथा चासतो घटस्य सामान्यं धर्म इत्युक्तं स्यात्। तच्च सामान्यं सदसतोऽतीतादेधर्मः कथम्भवेत् । न हि तैक्ष्ण्यं शशविषाणस्य भवति । (३४)
उपचारात् तदिष्टं चेद् वर्तमानघटस्य का।
प्रत्यासत्तिरभावेन या पटादौ न विद्यते ॥३५॥ . अथोपचारात्तदसद्धर्मत्वमिष्टं सामान्यस्य न वस्तुत इति चेत्। सति घटे . तद्धमतादृष्टरसत्यपि तस्मिन् सा कल्प्यत इत्यर्थः।
ननु सामान्यसम्बन्धिनोऽपि घटस्याभावेनातीतादिघटलक्षणेन का प्रत्यासत्तिरुपचारनिबन्धनमस्ति या पटादौ न विद्यते यदभावात् घटसम्बन्धिता सामान्यस्य - पटे नीपचर्यते (1) सादृश्यं प्रत्यासत्तिरिति चेत् । तन्न(।) सदसतोः सादृश्याभावात्। प्राक् तादृगासीदिति चेत्। यदासीन्न (तदा) तदुपचारः सम्बन्धस्य सत्त्वात्। यदा यनास्ति तदापि न सादृश्यं । सति च किञ्चिदुपचर्येत नासति। (३५)
किञ्च (1) ..... बुद्ध रस्खलिता वृत्तिर्मुख्यारोपितयोः सदा ।
सिंहे माणवके तद्वद् घोषणाप्यस्ति लौकिकी ॥३६॥ मुख्यारोपितयोरर्थयोर्बु वाहिकाया अस्खलिता दृढा वृत्तिः । तन्त्रादवृत्तिश्च सदा। यथा सिंहे माणवके च सिंहबुद्धरस्खलिता। स्खलिता च वृत्तिरिति लौकिक्यपि घोषणास्ति न केवलं प्रामाणिकी। न चातीतानागतघटादिबुद्धिः स्खलन्ती जायते येनातीतानागतव्यक्तिधर्मता सामान्यस्यारोपिता स्यात्। (३६)
अतीतादौ न सामान्यनिबन्धना शब्दवृत्तिः किन्तूपचारादित्याह। .. 'घटस्य रूपादिभ्योऽवाच्यत्वेपि पटाद् घटे भिन्नता . . . . . . 'वाच्य एव । वर्तमाने घटत्वदर्शनात्। वर्तमानस्य।
४ यदि वस्तुभूतसामान्याश्रयेण शब्दवृत्तिस्तदातीतादौ न स्यात् । 'पटे यस्याः प्रत्यासत्तेरभावानोपचार इति । ' अस्खलिता वृत्तिरित्यावर्त्य यत्नात् ।