________________
१२४ प्र० वा. वृत्तौ (२ परिच्छेदः)
सामान्यबुद्धौ सामान्येनारूपायामवीक्षणात् ।
अर्थभ्रान्तिरपीष्येत सामान्यं साऽपि; सामान्यबुद्धावरूपायां ग्रा' ह्यरूपरहितायामपि सामान्येन विजातीयव्यावृत्त्युपकल्पिताऽभेदेनाकारेण भेदेष्वर्थेष्वीक्षणात् सामान्यमपि यद्व्यवस्थाप्यते साप्यर्थभ्रान्तिरिष्येत' विवेचकैः । न हि बुद्धयाकारः सामान्यमुक्तं स्वलक्षणत्वात् ।
अभिलवात् ॥३१॥ अर्थरूपतया तत्वेनाभावाच्च न रूपिणी ।
निःस्वभावतयाऽवाच्यं कुतश्चिद् वचनान्मतम् ॥३२॥ अर्थनिष्ठतया तु सामान्ये गृह्यमाणेऽर्थभ्रमः२ तथा बुद्ध्याकारस्यार्थरूपत्वेन व्यक्तिष्व भिप्लवात् अभिसम्बन्धात् । तत्त्वेनार्थरूपत्वेनाभावाच्च । न रूपिणी तथा भूतबाह्यविषयवती सामान्यबुद्धिः अतश्च। ततश्च निःस्वभावतया सामान्यं भेदाभेदाभ्यामवाच्यं व्यक्तिभ्यः। स्वभावं हि भिन्नमभिन्नं वा स्यात् । कुतश्चिदसामान्यात् भेदेन वचनात् यदि वस्तुसामान्यं मतं। (३१,३२)
यदि वस्तुनि वस्तूनामवाच्यत्वं कथञ्चन ।
नैव वाच्यमुपादानभेदाद् भेदोपचारतः ॥३३॥ यद्येवं व्यक्तेर पि भेदाभेदाभ्यां वाच्यं स्यात्। यस्मान्न वस्तूनामवाच्यत्वं कथञ्चन। यथा हि सामान्यं स्वरूपवत्त्वात् सामान्यान्तराद् भेदेनोच्यते तथा व्यक्तेरपि तत्त्वान्यत्वाभ्यां यथासम्भवमुच्येत । तस्माद्यत् कुतश्चिदपि वस्तुनस्तत्वान्यत्वाभ्यामवाच्यं तदवस्त्विति विशेषणो हेतुः। अथवा निविशेषणे हेतौ नासिद्धिः। यत१०: सामान्यान्तरादपि सामान्यं भेदेन नैव वाच्यमुपादानस्य कर्कशाबलेयादेर्भेदात्तदाश्रयोत्पन्नबुद्धयालम्बना अश्वत्वगोत्वादीनां भेद १ स्योपचारात् ।
(३३)
१ बुद्धिप्रतिभासः सामान्यमित्यत्राह। अतस्मिंस्तद्ग्रहात्। ३ तत्रैवाह हेतुं। ४ भाति स्वाकारमर्पयन्ती। वस्तुतीर्थरूपतया। 'नाप्यर्थधर्मोन्यापोहोत्र युक्तः। निःस्वभावापूर्वहेतोश्च 'वस्तुत्वात्। ? अश्व। 'वस्तुभवत्सत्तत्वान्यत्वम्वा नातिक्रामति।
१० पटादपि घटत्वमन्यत्वेन नैव वाच्यं । न चोपचरितभेदेन वस्तुत्वं । न हि कलायविदलं स्वर्णमुपचर्य हेमवान् (?वत्) स्यात्।।
११ न तु भिन्नसामान्ये तद्रूपादय एव केवला भिन्नाः। उपचरितभेदान्न वस्तुत्वसिद्धिः।