________________
सामान्यचिन्ता
१२३ ननु निःस्वभावत्वे कथं सामान्यमित्याह (1)
अपेक्षाभावतस्तयोः ॥२७॥ . अपेक्षाभावतस्तयोः शाबलेयागोव्यावृत्त्योः परस्परमपेक्षाभावतस्तद्वयावृत्तिरेव सामान्यं न शशविषाणादिः। न हि तदपेक्षा क्वचिदस्ति । अतद्व्यावृत्ति - स्तु निःस्वभावाप्यनुगामिप्रत्ययहेतुः सामान्यं । अभावत्वमिव प्रागभावादिषु पदार्थत्वमिव द्रव्यादिषु । (२७) ।
तस्मादरूपा रूपाणां नाश्रयेणोपकल्पिता। - तद्विशेषावगाहार्थैर्जातिः शब्दैः प्रकाश्यते ॥२८॥
तस्मावस्तुतो जातिररूपा निःस्वभावा रूपाणां शाबलेयादीनां नाश्रयेणोपकल्पिता जातिः । शब्दस्तद्विशेषावगाहाथैः । ते च ते विशेषाश्च तद्विशेषास्तेषामवगाहःप्रवृत्तिविषयत्वेन व्यापनं सोऽर्थः प्रयोजनं येषां तैः सकृदेककार्यानेकप्रतिपत्त्यर्थं तदाश्रयेणोफ्कल्पिता जातिर तद्व्यावृत्तिलक्षणा शब्दरभिधेया। (२८) यदि जातिनिःस्वभावा कथं स्वभावविशिष्टा व्यवसीयत इत्याह (1)
तस्यां रूपावभासोयं तत्वेनार्थस्य वा प्रहः । . भ्रान्तिः सा;
तस्या जाती रूपस्य स्वभावस्यावभासो यस्तत्वेन जातिस्वभावेन वार्थस्य यो प्रपो भ्रान्तिः सा जातेनिःस्वभावत्वात् विशेषात्मकत्वाभावात्। किन्तर्हि भ्रान्तेीजमित्याह (1)
- अनादिकालीनदर्शनाभ्यासनिर्मिता ॥२९॥ अनाविकालीनानामनादिकालिकानां तथाभूताध्यवसायज्ञानानामभ्यासेन निमिता। (२९)
____ 23b यद्यन्यव्यावृत्तिः सामान्यं किन्तस्य रूपमित्याह (1)
अर्थानां यच्च सामान्यमन्यव्यावृत्तिलदाणम् ।
यन्निष्ठास्त इमे शब्दा न रूपं तस्य किञ्चन ॥३०॥ अर्थानां विशेषाणां यच्च सामान्यमन्यव्यावृत्तिलक्षणं। यनिष्ठा यद्विषयास्ते इमे सांकेतिकाः शब्दास्तस्य रूपं स्वभावो न किञ्चन । वस्तुतः कल्पितत्वात् । (३०)
ननु बुद्धयाकारः स स्वभावः स एव तर्हि सामान्यम्भविष्यतीत्याह (1)