________________
१२२
प्र० वा. वृत्तौ (२ परिच्छेदः) प्रत्यक्षप्रत्ययार्थत्वान्नाक्षाणां व्यर्थतेति चेत् ।.. शब्दादिभावेषु प्रत्ययोऽप्रत्यक्षः। प्रत्यक्षस्तु अक्षेभ्य इति न तद्वैफल्यं । अत्राह (1)
सैवैकरूपाच्छब्दादेर्भिन्नाभासा मतिः कुतः ॥२४॥ सैव' प्रत्यक्षाप्रत्यक्षाभासा भिन्नाभासा मतिरेकरूपात शब्दादेरादिशब्दाद् गन्धरसादेः कुतः। एकरूपविषया च भिन्नप्रतिभासा चेति विरुद्धं । (२४) . .. किञ्च (1) जातिर्जातिमतो रूपाद् भिन्नाभिन्ना वा। - न जातिर्जातिमद् व्यक्तिरूपं येनापराश्रयम् ।
सिद्धं ; पृथक् चेत् कार्यत्वं ह्यपेक्षेत्यभिधीयते ॥२५॥ _____वत्र न तावज्जातिर्जातिम देव व्यक्तिरूपं येन कारणेनापराधयमनन्यानुयायि सिद्धं । न ह्येकस्या व्यक्त रूपमन्यत्रास्ति। सर्वानुयायि च सामान्यमिष्टं व्यक्तेः सकाशात् पृथक् चेत्सामान्यं । अस्येदं सामान्यमिति भाविकसम्बन्धा'नुपपत्तिः। अपेक्षालक्षणः सम्बन्धश्चेत् नन्वपेक्षेति कार्यत्वमुच्यते तत्सामान्यस्य नित्यस्यासम्भवि। (२५)
निष्पत्तरपराधीनमपि कार्य स्वहेतुतः।
सम्बध्यते कल्पनया किमकार्य कथञ्चन ॥२६॥ कार्यमपि निष्पत्तनित्यत्वादपराधीनं सर्वत्र निराशंसं वस्तुतो न क्वचित्सम्बध्यते। केवलं कल्प'नया कारणात्मनि सम्बध्यते। यत्तु कथञ्चन सामान्यमकार्य तत्कि क्वचित् सम्भ त्स्यते। (२६)
. अन्यत्वे तदसम्बद्धं सिद्धाऽतो निःस्वभावता।
जातिप्रसंगोऽभावस्य न; तस्माद् (1)
व्यक्तेः सकाशादन्यत्वे तत् सामान्यमसम्बद्धमतोऽस्य निःस्वभावता सिद्धा व्यक्तिभ्यस्तत्त्वान्यत्वाभ्यां व्यवस्था पयितुमशक्यत्वात्। यद्यपि निःस्वभावा जातिस्तथापि नाभावस्य शशविषाणादेरपि जाते॥तिरूपतायाः प्रसङ्गः। न हि यो योऽभावः स जातिरुच्यते। किन्तु सामान्यं यत्तन्निःस्वभावं।
'स्पष्टास्पष्टा। 'तत्त्वान्यत्वावाच्यस्य सामान्यत्वे शशशृङ्गाः प्रसङ्गश्चेत् । 'अभेवः। यदप्यकुरादि बीजादेः तदपि निष्पन्नमपराधीनं। बीजादेरजकुरादीति। सम्बन्धमनुभविष्यति।