________________
सामान्यचिन्ता
१२१
यदि व्यक्तेव्विशेषात् व्यक्तिरभिव्यक्तिः सामान्यस्य प्रत्यक्षतां प्रति प्रत्यक्षभावनिमित्तमिष्टा । प्रत्यक्षभूतसामान्यविषया प्रतीतिर्व्यञ्जिकाया व्यक्तेर्भवति । अन्या तु सामान्यबुद्धिर्व्यञ्जकमन्तरेणापि ॥ ( २० )
ननु (1)
आत्मनि ज्ञानजनने यच्छक्तं शक्तमेव तत् । अथाशक्तं कदाचिश्चेदशक्तं सर्वदैव तत् ॥ २१॥
केवलस्य
यत्सामान्यमात्मनि प्रत्यक्षात्मकज्ञानजनने व्यञ्जकव्यापारकाले शक्तमन्यदापि शक्तमेव तन्नित्यैकस्वभावतयाऽनुपकार्यत्वात् । ततश्च सामान्यस्य प्रत्यक्षजननादक्षवैकल्यप्रसङ्गः । अथाशक्तं तत्कदाचित् ' केवलाद्यवस्था - 232 याश्चेत् तदा सर्व्वदेवाशक्तं तदुपेयं एतस्य स्वभावद्वयायोगात् स्वभावभेदलक्षणत्वाद्वस्तुभेदस्य । (२१)
एतदेव स्फुटयति (1)
5 'तस्य शक्तिरशक्तिर्वा या स्वभावेन संस्थिता । नित्यत्वादपि किं तस्य कस्तां क्षपयितुं क्षमः ॥२२॥
तस्य सामान्यस्य शक्तिरशक्तिर्व्वा स्वविषयज्ञानजननादौ या स्वभावेन संस्थिता । तां शक्तिमशक्तिम्वा नित्यत्वादचिकित्स्यस्यानपनेयप्राचीन स्वभावस्य aise क्षपयितुं क्षमः । (२२)
तच्च सामान्यविज्ञानमनुरुन्धन् विभाव्यते । नीलाद्याकारलेशो यः स तस्मिन् केन निर्मितः ॥२३॥
किन्तु यत्तद्व्यक्तिनिरपेक्षमिष्टं तच्च सामान्यविज्ञानमनुरुन्धन् विषयभावेनानुवर्तमानो यो विभाव्यते नीलाद्याकारलेशोऽसं पूर्णस्फुटीभावः स तस्मिन् सामान्यज्ञाने केनार्थेन निर्मितः । न तावज्जात्या तस्यास्त " दसम्भवात् । नापि व्यक्त्या तत्र तस्या" अप्रतिभासनात्। ततश्च केवलसामान्यग्राहि तत् ज्ञानमिति न युक्तं । विशेषग्रहणे चाक्षवैफल्यं तदवस्थं । (२३)
स्यादेतत् (1) द्विविधो भावानां प्रत्ययः । प्रत्यक्षोऽप्रत्यक्षश्च । तत्र (1)
सिद्धान्त्याह (1) सामान्यं तत्स्वभावतः प्रत्यक्षजनकं न वेति ।
२ सामान्यविषयं ।
* विकल्पाविकल्पा तन्मतेन । ' ? व्यक्तिरिति ।
४ व्यक्त्याकारासम्भवात् ।
१६
• ? अभ्युपगन्तव्यं ।