________________
१२०
प्र० वा. वृत्तौ (२ परिच्छेदः) विकल्पज्ञानमनर्थकं प्राप्तं (1) न हि यथा चक्षुरादिबुद्धेरर्थव्यतिरेकाद् व्यतिरेकः तथा सामान्यबुद्धेर्व्यतिरेकः । आभोगमात्रेण भावात् । (१७) .. अप्रवृत्तिरसम्बन्धेप्यर्थसम्बन्धवद् यदि।
न' केवलं वक्तृश्रोतृसम्बन्धिनि असम्बन्धेपि नामा दावर्थेऽप्रवृत्तिः स्यात् । अर्थसम्बन्धवत् नामाद्यर्थे प्रवृत्त्यर्थं यदीष्यते तदा अतीतानागतं नामादि तदभिधायिनां शब्दानां वाच्यं न स्यात् । अभूत् मा न्धा ता भविष्यति शंख श्चक्रवर्तीति (1) कस्मादित्याह (1)
अतीतानागतं वाच्यं न स्यादर्थेन तत्क्षयात् ॥१८॥ अर्थेनातीतानागतेन सह तस्य नामादेः सम्बन्धिनः स्यात् स्वरूपा - भावात्। (१८)
(२) परमते दोषः
क, व्यक्तिसामान्ययोमेंदे दोषः अथ (1) . सामान्यग्रहणाच्छब्दादप्रसंगो मतो यदि ।
तन्न केवलसामान्याग्रहणाद् ग्रहणेपि वा ॥१९॥ शब्वात् सामान्यग्रहणात् तत्प्रतीत्या फलवन्त्यक्षाणीति तेषां वैफल्यस्याप्रसङ्गो मतो यदि(1) तदेतन्न युक्तं (1) केवलस्य व्यक्तिशून्यस्य सामान्य स्याग्रहणात् । व्यक्तिव्यंग्यं हि सामान्यं व्यञ्जकाग्रहणे कथं गृह्यते। केवलस्य ग्रहणेपि वा।(१९)
अतत्समानता व्यक्ती तेन नित्योपलम्भनम् ।
नित्यत्वाच्च यदि व्यक्तिव्यक्तः प्रत्यक्षतां प्रति ॥२०॥ अतत्स'मानता व्यक्ती। यत्प्रतीत्या यत्प्रतीयते तत्तस्य सामान्यं व्यंग्यञ्च । स्वतन्त्रप्रतीतिस्तु न सामान्य व्यङग्यं वा। तेनापराधीनप्रतीतित्वेन नित्योपलम्भनं सामान्यं प्राप्तं। व्यक्तिसदसत्त्वयोरप्युपलब्धिः स्यात्। स्वप्रतीतौ व्यक्तिनिरपेक्षत्वात् । तथोपलभ्यस्वभाव'स्य सामान्यस्य नित्यत्वाच्च नित्यमुपलम्भनं भवेत्।
- 'तदेवं नामावावप्रवृत्तिः। सम्बन्धेपि। अर्थेन सम्बद्धं ।
'अनागतस्य चानुत्पत्तेः। 'आनुषङ्गिकमपनीय प्रकृतं सामान्यमाह (1) शम्देन सामान्यस्यैव ग्रहाद्रूपादौ सफलमक्षं ॥
'समानानां भावः समानता व्यक्तेः सामान्यं न स्यादित्यर्थः। व्यक्तिरभिव्यक्तिरपि न स्यात्। व्यक्त्यनुत्पत्तिविनाशेपि।