SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ सामान्यचिन्ता ११९ नन्वस्ति प्रमाणं सर्वस्य ज्ञानस्यार्थवत्त्वात्। शाब्दमपि ज्ञानमर्थवदेव। न च रूपादयो विषय इति पारिशेष्यान्नामादिकमेवेति चेत् स्वप्नादावादिशब्दान् तैमिरिकज्ञानादिष्वन्यथा अर्थशून्यस्येक्षणात् सर्वज्ञानार्थवच्छाब्दस्य नामादिविषयत्वानुमानमयुक्तं। स्वप्नविज्ञानमपि निमित्तविषयमेवेति चेदाह (1) न च संस्कारानीलादिप्रतिभासतः ॥१५॥ न च संस्कारानिमित्ताख्यात् स्वप्नज्ञानं नीलादिर्बर्णसंस्थानविशेषतः प्रतिभासतः। न च विप्रयुक्तसंस्कारो वर्णसंस्थानविशेषवान् । (१५) नीलादिरेवासावर्थ इति चेत् (1) नीलाद्यप्रतिघातान्न ; स्वप्नप्रतिभासि न नीलादि वस्तु अप्रतिघातात् । नीलादयो यर्थाः स्वदेशे पदार्थान्तरस्य व्याघातकाः स्वप्तोपलब्धास्तु नैवं । पिहितद्वाराववरकोदरसुप्त - स्थानान्तरगमना(त्) हस्तियूथादिदर्शनात्। किन्तहि तदित्याह (1) ज्ञानं तद्योग्यदेशकैः। अज्ञातस्य स्वयं स्नात्; ज्ञानं तत् नीलादि योग्यदेशकः स्वप्नायमा नेम समानदेशः पुरुषान्तरैरज्ञातस्य स्वयं ज्ञानात्। स्वयम्वेद्यमसामान्यमिति ज्ञानलक्षणं। तच्च स्वप्नदृष्टनीलादिषु व्यक्तं। नामाद्यतेन वर्णितम् ॥१६॥ एतेन स्वप्नदृष्टस्य ज्ञानत्वसाधनेन नामादि वर्णितं। नामादिकमपि तन्न भवति योग्यदेशकरज्ञातस्य स्वयं ज्ञानात् ज्ञानं तत् । तस्मानास्त्यर्थः सामान्यबुद्धिरिति । (१६) अपि च (6) ... सैवेष्टार्थवती केन चक्षुरादिमतिः स्मृता । अर्थसामर्थ्यदृष्टेश्चंदन्यत् प्राप्तमनर्थकम् ।।१।। यैव रूपादिविषयत्वेनेष्टा सैव चक्षुरादिमतिरर्थवती केन हेतुना मता। अर्थस्य रूपादेश्चक्षुराविमतिजनने सामर्थ्यवृष्टश्चेत् । अन्यसामान्यविषयं १ अनेकान्तिक। सुखादिवत्। तेन व्यभिचारस्तत्रान्यस्यामोग्यलात्। यदुत्पाद्यरूपं योगी पश्यति न . नामादि।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy