________________
प्र० वा० क्तौ (२ परिच्छेदः) देशभ्रान्तिश्च न स्यात्। वक्तृत्रोत्रादिसम्बन्धिनि नियतदेशे. नामादौ प्रतिपादिते तदन्यदेशे घटादौ सारूप्यादपि न युक्ता प्रवृत्तिः।। (१२) ननु त्वन्मतेऽपि ज्ञानाकारस्याभिधेयत्वात्कथं बाह्ये प्रवृत्तिरित्याह (1)
न झाने तुल्यमुत्पत्तितो धियः।
तथाविधायाः • न ज्ञाने ज्ञानाकारे वाच्येऽर्थे प्रवर्तनं तुल्यं। घियस्तथाविधाया बहिस्त्वेनाध्यवसिताकाराया उत्पत्तितः। शब्दजनिता हि बुद्धिर्वस्तुतः स्वांशालम्बनाप्यनाद्यविद्याक्शाद् बहिविषया व्य वसीयत इति युक्तमर्थे प्रवर्तनं ॥
अन्यत्र तत्रानुपगमाद् धियः ॥१३॥ - अन्यत्र नामादिविष यिणि ज्ञाने तदर्थाध्यवसायात्। अर्थे प्रवर्तनं न युक्त। निराकारबुद्धिवादि वै भा षिक मते बाह्यार्थप्रतिभासाया ज्ञानाकाराया धियोऽनुपगमतः। (१३)
बाह्यार्थप्रतिभासाया उपाये वाऽप्रमाणता । __विज्ञानव्यतिरिक्तस्य ;
यदि ज्ञेयाकारा बुद्धिः स्यात् स्यात्तत्प्रतीत्याऽभिमानांप्रवृत्तिरपि। अप्रवृत्तिदोषदर्शनाद् बाह्यार्थप्रतिभासाया बुद्धेरु पाये स्वीकारे वाप्रमाणता नामादेः विप्रयुक्तसंस्कारस्य विज्ञानव्यतिरिक्तस्य (1) कथमित्याह (1)
व्यतिरेकाप्रसिद्धितः ॥१४॥ 22b व्यतिरेकाप्रसिद्धितः। प्रतिभासमानस्याकारस्य ज्ञानत्वात्। न चेन्द्रियादिषु
सत्स्वपि विज्ञानकार्यानुत्पत्तितोऽर्थ इव नामादिरपि शक्यव्यवस्थानः । न हि गृहीतसंकेतस्य शब्दश्रुतौ क्वचिदर्थाप्रति पत्तिः॥ (१४)
सर्वज्ञानार्थवत्वाञ्चत् स्वप्नादावन्यथेक्षणात् । अयुक्तं ;
' तथाहि त्वयेदं करणीयमिति नियुक्तः पुमान् सारूप्याइन्यत्र न प्रवर्तत एवेति दृष्टः।
दृश्यविकल्पयोरक्येन वृत्तः। 'यस्यापि न नामादिविप्रयुक्तोऽभिधेयः। - . . अभ्युपगमे।
परानुमानेन।