________________
सामान्यचिन्ता
रूपादिस्वभावमेवाविशेषेण सामान्यं किन्नेष्यत इत्याह (1)
न तद्वस्त्वभिधेयत्वात् साफल्यादक्षसंहतेः ।
११७
तत्सामान्यं न वस्तुरूपादिस्वभावमभिधेयत्वात् । शब्द ' धर्मवत् सामान्यं शब्दज्ञानगोचरः । न च शब्दविषयो वस्तु (1) कस्मादित्याह (1) साफल्यादक्षसंहतेः । यदि शब्दविषयो वस्तु भवेत् तदा रूपादिशब्दादेवार्थादेरपि रूपादिप्रतीतौ न किञ्चिदक्षैः। न चैवं। ततो वस्तुविषयेणेन्द्रियज्ञानेन शब्दस्य न तुल्यविषयता । तथा चावस्तुतैव शाब्दज्ञानावभासिनः सामान्यस्य न रूपादिता ॥
ननु रूपादयो न शब्दस्य विषयः किन्तर्हि ना मनिमित्ते विप्रयुक्तसंस्कारसंज्ञे ते विज्ञानाद् व्यतिरिक्ते वै भा षि क स्येष्टे । तदापि ( 1 )
नामादिवचने वक्तृश्रोतृवाच्यानुबन्धिनि ॥११॥
नामादिवचन इष्यमाणे किन्तन्नामादिकं वक्तरि श्रोतर्यर्थे वा सम्बद्धमसम्बद्धमेव वा क्वचित् । सर्व्वथा वक्तु श्रोतृवाच्यानुबन्धिनि । (११) असम्बन्धिनि नामादावर्थे स्यादप्रवर्त्तनम् ।
असम्बन्धिनि वा नामादौ शब्देन चोदितेऽर्थेऽप्रवर्तनं स्यादचोदितत्वात् ॥ भवतु तावदन्यसम्बन्धिनि असम्बन्धिनि वा नामादावर्थेऽप्रवर्तनं । अर्थसम्बन्धिनि तु कथमप्रवृत्तिः । अचोदितत्वात् ।
सारूप्याद् भ्रान्तितो वृत्तिरर्थे चेत् स्यान्न सर्वदा ॥१२॥ देशभ्रान्तिश्च
न हि देवदत्ते प्रतिपादिते तत्पितरि प्रवृत्तिः । निमित्तस्यार्थसारूप्यात् । तद्भ्रान्तितोऽर्थे प्रवृत्तिश्चेत् सम्भाव्यत एतत् किन्तु न स्यात् सर्व्वदा । न हि यमलकयोर्नियमेन भ्रान्त्याऽ न्यत्र प्रवृत्तिः । कदाचित्तत्रापि दर्शनात् । तथा
.१ शब्दस्यायन्धर्मो यदुत शब्दज्ञानगोचरत्वं ।
* वैभाषिकमतमाशङ्कते ।
" इति चत्वारो विकल्पाः ।
' वक्तृसम्बन्धिनि । श्रोतृसम्बन्धिनि | अर्थसम्बन्धिनि ।
३ विज्ञानवाद्यतिरिक्ते ।
1201
• सिद्धान्ती, अर्थस्य शब्देनाचोदितत्वात् ।
- यावताऽयं पुरुषः सर्व्वदार्थ एव दृष्टः शब्दात्प्रवर्तमानः । न कदाचिन्नास्ति
वक्त्रादिसम्बद्धे । तन्न भ्रान्त्या वृत्तिः ।
* देशभ्रान्त्यार्थे वृत्तिरिति चेत् ।