________________
प्र० वा. वृत्तौ (२ परिच्छेदः)
केशादीति मतिः पुनः ॥८॥ . सामान्यविषया; केशादीति पुनविकल्पिका मतिः तैमिरिकोपलब्धकेशाद्यध्यवसायिनी सामान्यविषया। अयमर्थः (1) तैमिरिकदृष्टं केशादि सामान्यरूपेण व्यवस्यन्ती विकल्पिका बुद्धिरध्यवसायेन विषयेण सामान्यविषया। तैमिरिकधीस्तु स्वलक्षणविषया बुद्धयाकारस्य स्वलक्षणत्वात्॥ (८) किन्तर्हि निविषयमित्याह (1)
केशप्रतिभासमनर्थकम् । तैमिरिककेशप्रतिभासं ज्ञानमनर्थकम्बाह्यकेशाभावात् ।।
ज्ञानरूपतयार्थत्वे सामान्ये चेत् प्रसज्यते ॥९॥ ननु ज्ञानरूपतयार्थत्वे केशादीति विकल्पबुद्धिप्रतिभासिनि सामान्ये स्वलक्षणता प्रसज्यते चेत् (१९)
तथेष्टत्वाददोषः। तथा ज्ञानाकारतया सामान्यस्यापि स्वलक्षणताया इष्टत्वावदोषः॥
(ख) सामान्यस्य ज्ञानाकारता कथन्तर्हि सामान्यरूपतेत्याह (1)
अर्थरूपत्वेन समानता। अर्थरूपत्वेनाध्यवसीयमानज्ञेयरूपत्वेन समानता न तु बुद्धयाकारत्वेन ।
(ग) विजातीयव्यावर्तकं सामान्यम् कथं पुनरर्थरूपत्वेनापि समानतेत्याह (1) . सर्वत्र समरूपत्वात् तद्व्यावृत्तिसमाश्रयात् ॥१०॥
सर्वत्र व्यक्तिषु तद्व्यावृत्तिसमाश्रयात् विजातीयव्यावृत्त्याश्रयेण दृश्यविकल्प्यकत्वाध्यवसायादुपकल्पितस्य सामान्यस्य समरूपत्वात् साधारणरूपत्वादर्थत्वेन सामान्यमुच्यते ज्ञानाकारस्य सामान्यस्य संप्रति व्यतिरिक्तस्य' च पूर्व प्रतिषेधात् ॥ (१०)