________________
सामान्यचिन्ता न हि रूपा'दिव्यतिरिक्तं द्रव्यं । अपरापरदेशिजन्यहस्तादिक्षणाद् भिन्नं कर्म, व्यक्तिव्यतिरेकि सामान्यं प्रत्यक्षबुद्धावभासते। विकल्पबुद्धिरस्तु कल्पिका। सा च' संकेतसँस्कारप्रबोधमात्रभाविनी नार्थाधीनेति न तेषां सामथ्यं समर्थयति॥(६) .
ननु यद्यर्थनिरपेक्षाणामन्यनिमित्तानां भावे यत्र बुद्धिस्तत्सामान्यं तदा तैमिरिकबुद्धिप्रतिभासिनः केशादयोपि सामान्यं स्युः । तेष्वपि धियोऽर्थनिरपेक्षचक्षुरादिमात्रनिमित्तत्वादित्याह ।
केशादयो न सामान्यमनर्थाभिनिवेशतः। केशादयस्तैमिरिकप्रतिभासिनो न सामान्यमनर्थाभिनिवेश तः। न हि तेषु विषयबुद्धिर्व्यवहारिणां विषये च सामान्यचिन्तेयं । यदि ज्ञेयत्वेनाध्यवसायाभावान्न सामान्यं तदाऽभावोप्यनुपलब्धिविषयः सामान्यं न स्यात्।
ततश्चानुपलब्धिरनुमानं न भवेदित्याह (1) ... ज्ञेयत्वेन ग्रहाद् दोषो नाभावेषु प्रसज्यते ॥७॥
नाभावेषु सामान्यरूपत्वाभावदोषः प्रसज्यते ज्ञेयत्वेन ग्रहात्। यद्यप्यभावेऽर्थरूपताया अध्यवसायो नास्ति ज्ञेयतया त्वस्ति लोकस्य (1) तच्च ज्ञेयं यदर्थकारि तत्सामान्यमेव । (७) यदि तु (1)
तेषामपि तथाभावेऽप्रतिषेधात्; तेषां तैमिरिकगम्यानां केशादीनामपि तथाभावे ज्ञानान्तरेण ज्ञेयत्वे समानरूपतेष्यते तदाऽप्रतिषेधादिष्टमेवास्माकं। तैमिरिकज्ञानगम्याः केशादय इति यदा बुद्धयन्तरेण परामृश्यन्ते तदा केशादयो ज्ञेयत्वेन सामान्यमिष्टा एव॥ यदि तैमिरिकदृष्टाः केशादयो न वस्तु तदा स्फुटाभता न स्यादित्याह।
स्फुटाभता। ज्ञानरूपतयार्थत्वात् ; ज्ञानरूपतया ज्ञानाकारतया केशादीनामर्थत्वात्।' स्वलक्षणत्वात्स्फुटाभता। 22a
यदि ज्ञानाकारतया केशादयः स्वलक्षणन्तदा सामान्यं कथमित्याह (1)
१ ननु प्रत्यक्षगम्यमेवोत्क्षेपणादीत्याह(1) समयाभोगं व्याचष्टे। । अर्थानामनुमाजनने। प्रत्यक्षविषयेप्याभिनिवेशमानं नार्थ इति सूचनया मध्याप्रवेशमाह। भावव्यावृत्तिः।