________________
प्र० वा वृती (२ परिच्छेदः) व्यापारव्यवस्थापकं । यदि यथानुभवं प्रवर्तते नान्यथा। न च कार्यकारणभावानुभवो भूत इत्युक्तं। अतः स्मरणत्वमप्यस्य नास्ति। अनुभूतविकल्पनस्य स्मरणत्वात् (1) ततो विकल्पमात्रमेतत् न ततो वस्तुव्यवस्थेति संवृत्त्यैवाविचारितरमणीयया कार्यकारणभावव्यवहारो न परमार्थतः ।
अस्तु यथा तथा ॥४॥ अस्तु' यथा तथा । सांवृतमपि कार्यकारणभावमाश्रित्य साध्यसाधनादिव्यवहारसम्वादसम्प्रत्ययात् समाप्तो लोकव्यवहारः। सांव्यवहारिकञ्च प्रमाणं तावतैव सुस्थं। (४)
(१) सामान्यचिन्ता (क) सामान्ये नार्थक्रियासामर्थम् . . सास्ति सर्वत्र चेद् बुद्धर्नान्वयव्यतिरेकयोः। .
सामान्यलक्षणेऽदृष्टेः वरूपादिबुद्धिवत् ॥५॥ सार्थक्रिया सर्वत्र स्वलक्षणे सामा न्येप्यस्ति चेत् न सामान्यलक्षणे । अस्तु तावदन्यस्य कार्यस्य बुद्धरप्यन्वयव्यतिरेकयोरदृष्टेः। अन्त्यं हि भावानां. कार्य बुद्धिः। सापि यदन्वयव्यतिरेको नानुविधत्ते (1) तस्य कुतोऽर्थक्रिया। प्रत्यक्ष तावन्न सामान्यविषयं स्वलक्षणमात्रस्य प्रतिभासनात् । घट इत्यादिविकल्पबुद्धिस्तु सामान्यावसायात् तद्विषया। सापि समयाभोगादिमात्रादुत्पत्तेर्न सामान्यान्वयव्यतिरेकानुविधायिनी' बशूरूपादिबुद्धिवत् चतूरूपादिजबुद्धेः। चक्षुराद्यन्वयव्यतिरेकानुविधानमिव सामर्थ्य सति भावादेकापायेप्यभावाच्च। नवं सामान्यबुद्धिराभोगमात्रादुत्पत्तेः। (५)
एतेन समयाभोगाद्यन्तरणानुरोधतः ।
घटोत्क्षेपणसामान्यसंख्यादिषु धियो गताः॥६॥ एतेन सामान्यस्य ज्ञानमात्रकार्येप्यसामर्थ्यकथनेन समयाभोगादेरन्तरङ्गस्यामुरोधतः। घटोऽवयवि द्रव्यं । उत्क्षेपणं कर्म। सामान्य संख्या गुणः समवायः आदि शब्दात्संयोगविभागादयः । तेषु या धियो विकल्पिका भवन्ति ता गता व्याख्याता:।
सिद्धान्ती(-)अर्थक्रिया तावदस्ति। अन्यथा जगद्व्यालोपः। चक्षुःश्रोत्रादिरूपशब्दादि। सामान्यविषया। "चित्ताभोगो मनस्कारः।