________________
.. सामान्यतत्कल्पनानिरासः ..
११३ र्जननलक्षणा बीजान्वयव्यतिरेकानुविधाय्यङकुरो दृश्यते (1) इदमेव कारणस्य शक्तत्वं यत्प्रागदृष्टस्य तद्भाव एव भावः।
मता सा चेत् संवृत्या; सा शक्तिः संवृत्या मता चेत् कार्यकारणभावो हि व्यवहारमात्रतः सिद्धः न परमार्थतः। न तावत्प्रत्यक्षं तद्ग्रहणसमर्थं बीजाङकुरग्राहिणोः प्रत्यक्षयोः स्वविषयमात्रव्यवस्थापनात् केनान्वयव्यतिरेकग्रहणं । क्रमेण द्वयोर्गृहीतयोस्तबल-- भाविना स्मरणेन ग्रहणमिति चेत् ।
ननु केनान्वयव्यतिरेको गृहीतौ। न प्रत्येकं बीजाकुरज्ञानाभ्यां स्वस्वविषयग्रहणात्। नापि द्वाभ्यां ज्ञानयो ययोश्च साहित्याभावात् । असाहित्ये बीजाङकुरमात्रस्य ग्रहणं नान्वयव्यतिरेकयोः। क्रमग्रहणमेव कार्यकारणभावग्रहणम् । तत्तु घटकुलालयोरप्यस्ति इति चेत् (1) न च क्रमोपिकेनचिच्छक्यग्रहणः प्रतियोग्यवेदनात्। पूर्वापरग्रहणमत एव नास्ति स्वज्ञानेन वर्तमानता ग्रहणाच्च। कार्यकाले च कारणं पूर्वमुच्यते तदा च तदेव नास्ति। तदेतन्मृतस्यारोग्यं । अथ यदैव बीजं तदैवाङकुरात् पूव्वं न तु पश्चात् अस्य पूर्वत्वं सम्भवति ॥
नन्वेवं पूर्वतया प्रतिभासोस्य प्राप्तः। न चैतदस्ति। अङकुरसाहित्यं पूर्वत्वं तच्च गृह्यत एवेति चेत्। तादृशं पूर्खत्वमन्येषामप्यस्तीति तेपि कारणानि स्युः। किञ्च (1) पूर्खत्वं वर्तमानकालात्प्राग्भावित्वमुच्यते (1) तद्यदि वस्तुनो रूपं तदा वर्तमानं कदापि न स्यात्। वर्तमानतातत्प्रागभावित्वयोविरोधात् । स्यादेतदकुरवर्तमानतायाः प्राग्भावित्वं पूर्वत्वं । तच्च बीजस्य वर्तमानत्वेनाविरुद्धमिति न तस्याभावः। एवन्तर्हि बीजग्रहणे पूर्खताग्रहणं प्राप्तं। न च बीजस्वरूपमिव पूर्खतामपि तद्ग्राहिणि ज्ञाने कश्चिदुपलभते।
नवापेक्षिकमिदं पूर्खत्वं प्रतियोगिनोऽप्रतीतौ कथं प्रतीयतां । य येवं वस्तुनो नेदं केवलं भावान्तरापेक्षया व्यवह्रियत इत्या(या)तं (1) न हि वस्तुरूपं सति वस्तुनि 21b नास्ति (1) यच्चास्ति तेन वस्तुरूपावभासिनि ज्ञाने प्रतिभासितव्यमेव । अन्यथा ज्ञानज्ञेययोविषयविषयितैव न स्यात् (।) तस्मान्नाध्यक्षात् कार्यकारणताग्रहः। अतश्च नानुमानादपि । न हि सर्वदा परोक्षेऽन्येऽनुमानवृत्तिः व्याप्तिग्रहणपूर्वकत्वात्तस्य । नापि प्रत्यक्षबलभाविस्मरणं तद्ग्रहणप्रवणं (1) न हि तत्स्वतन्त्रंप्रमाणं किन्तु प्रमाण
'स्वरूपमात्रवेदनात्। २ अक्रमवेद(ना) पेक्षत्वात्। परः।
ॐ माध्यमिकः।
.
१५