________________
प्र० वा. वृत्तौ (२ परिच्छेदः) सहशासहशत्वाच्च विषयाविषयत्वतः ।
शब्दस्यान्यनिमित्तानां भावे धीः सदसत्वतः ॥२॥ तथा' सदृशासदृशत्वाच्च विषयद्वैविध्यं । सदृशं सामान्यं सर्वव्यक्तिसाधारणत्वात्। असदृशं स्वलक्षणं सर्वतो व्यावृत्तत्वात् । अनयोश्चान्योन्यव्यवच्छेदरूपत्वात् न राश्यन्तरं। ततो यदि कल्प्यमानं सदृशं तदा सामान्यमेव तत्। अथासदृशं स्वलक्षणमेवेति द्वैविध्यमेव विषयस्य। तथा' शब्दस्य विषयाविषयत्वतश्च द्वैविध्यं। शब्दस्य विषयः' सामान्यं । अविषयः स्वलक्षणं। न च शब्दविषयाविषयाभ्यामन्योस्ति सर्वस्य संग्रहात् द्वैविध्यमेव। तथा विषयादन्यषानिमित्तानां मनस्कारवत् साद्गुण्यसंकेतग्रहणानां भावे ग्राहिकाया धियः सामान्ये सत्त्वात् स्वलक्षणे चाभावात् विषयद्वैविध्यं । यत्र विषयव्यतिरिक्तनिमित्तसद्भावे भवति बुद्धिस्तत्सामान्यं (1) यत्र'तु न भवति तत् स्वलक्षणं । प्रकारान्तरञ्च न सम्भवतीति बुद्धिविषयाविषयत्वे सामान्यस्वलक्षणतैवेति द्वैविध्यमेव विषयस्य।.(२)
२. सत्यद्वयचिन्ता . तदेवार्थक्रियासामर्थ्यादिकं स्वलक्षणा दौ योजयन्नाह। +अर्थक्रियासमर्थ यत् तदत्र परमार्थसत् ।
अन्यत् संवृतिसत् प्रोक्तं; ते स्वसामान्यलक्षणे ॥३॥ अर्थक्रियायां ज्ञानादिकायां स्वरूपोपधानेन समर्थ यत्तदत्र वस्तुविचारे परमार्थसत्। एवं यदर्सदृशं शब्दाविषयोऽन्यनिमित्तभावे ज्ञानाभावश्च तत्परमार्थसत् । अतोऽन्यदशक्तं सदृशं शब्दविषयः । अन्यनिमित्तभावे बुद्धेविषयश्च तत् संवृतिसत् प्रोक्तं कल्पनामात्रव्यवहार्यत्वात्। ते परमार्थसंवृती स्वसामान्यलक्षणे। (३)
३. सामान्यतत्कल्पनानिरासः ऊ अशक्तं सर्वमिति चेद् बीजादेरङ्कुरादिषु । _दृष्टा शक्तिः स्वलक्षणसामान्यलक्षणे इष्टे सर्वमर्थकारित्वेने 'ष्टमशक्त। न किञ्चित् कर्तुं समर्थमिति चेत् । बीजादेः कारणाभिमतस्याङकुरादौ कार्यसंमते दृष्टा शक्ति
'सांस्यमतेनाह। . ज्ञानद्वारेण निराकृत्य शब्दमुखेनाह। व्यवहत व्यवसायान्न वस्तुतः। मनस्कारादीनां भावेपि यदभावे धियोऽभावस्तत्स्वलक्षणं। विषये सत्येव बुद्धिर्भवति। माध्यमिको सिद्धतामाह।