________________
प्रमाणसंख्याविप्रतिपत्तिनिराशः
१११
च प्रत्यक्षविषयव्यवस्था । एवन्तर्हि स्वलक्षणविषयता' न स्यादिति चेत् ? । न ( 1 ) सजातीयव्यावृत्तत्वेनापि ततो निश्चयात् । द्वे च व्यावृत्ती स्वलक्षणे स्तो निश्चिते च प्रत्यक्षबलात् । न चैवमप्यनुमानस्य वैयर्थ्यं ( 1 ) न हि सामान्यमित्येव प्रत्यक्षविषयः । परोक्षे तस्याप्रवृत्तेः । न च यदेकदाऽपरोक्षं तत्सर्वदा तथा । स्वलक्षणं कदाचिदपरोक्षमप्यन्यदा परोक्षं एवं सामान्यमपि । ततोऽपरोक्षे सामान्ये गृहीतायां व्याप्ती परोक्षे तस्मिन्ननुमानवृत्तिरिति न कश्चिद्विरोधः । तस्मात् ' प्रत्यक्षत्वाद्वा विषयद्वैविध्यसिद्धि: प्रत्यक्षानुमानाभ्यां वेत्युभयथाप्युपपन्नं ।
विषयद्वैविध्यमेव कस्मादित्याह ( 1 )
शक्त्यशक्तितः ।
अर्थक्रियायां ;
शक्त्यशक्तितोऽर्थक्रियायां । स्वलक्षणस्यार्थक्रियाशक्तत्वात् । विजातीयव्या• वृत्त्युपकल्पितस्य च सामान्यस्याशक्तत्वात् विषयद्वैविध्यं । न ह्येकस्य विरुद्धाविमौ धर्मो युज्येते । यद्यनर्थक्रियाकारि सामान्यं केशोण्डुकज्ञानप्रतिभासि केशाद्यपि सामान्यं स्यात् ।
केशादिन्नर्थोनर्थाधिमोक्षतः ॥१॥
न के शादिरर्थः सामान्यरूपोऽनर्थाधिमोक्षतः । (१) यत्र हि व्यवहर्तृणामर्थाध्यवसायः सोऽर्थः स्वलक्षणं सामान्यम्वा स्यात् । यत्र पुनरर्थबुद्धिरेव नास्ति स कथं सामान्यमुच्यतां ।
१ ननु यवतीन्द्रियं केशादिव्यवहितं स्वलक्षणं, यच्च सामान्यं न गोचरोनुमानस्य,, तस्य कथं व्यवस्था ।
“यज्जातीयैः प्रमाणैश्च यज्जातीयार्थदर्शनं । भवेदिदानीं लोकस्य तथा कालान्तरेष्वपी" ति
[कुमारिल] वचनात् ।
* अनर्थक्रियातो न स्वलक्षणं, स्पष्टप्रतिभास्यनन्वयित्वाभ्यां न च सामान्यमिति विषयान्तरत्वमस्य ॥
* अथारोप्यैतत् अन्यथोत्पत्तिसारूप्याभ्यां विषयत्वे आकारो बहिर्भासिकेशादेर्नोत्पादको न सरूपको नापि सम्वित्तस्येति चोद्यानवकाश एव सांव्यवहारि प्रमाणमेतत् । देशादिविप्रकृष्टन्तु ( 1 ) " यज्जातीयैः प्रमाणैश्च यज्जातीयार्थदर्शनं । भवेदिदानीं लोकस्य तथा कालान्तरेष्वपि " [कुमारिलस्य ] ॥
21a