________________
द्वितीयः परिच्छेदः*
प्रत्यक्षम् प्रथमपरिच्छेदेन प्रमाणसामान्यलक्षणं व्यवस्थाप्य विशेषलक्षणमाख्यातुं द्वितीयपरिच्छेदारम्भः।
१. प्रमाणसंख्याविप्रतिपत्तिनिरासः विप्रतिपत्तयश्चात्र संख्यालक्षणगोचरफलविषयाः सन्ति। तत्र संख्याविप्रतिपत्तिनिराकरणार्थमाह (1)
__मानं द्विविधं विषयद्वैविध्यात्; - मानं विविध। यत्तत्प्रमाणमविसम्वादित्वादज्ञातार्थप्रकाशकत्वात्सामान्यलक्षणमुक्तं तद् द्विविधं । प्रत्यक्षानुमानभेदेन। कस्माद् (1) विषयस्य स्वलक्षणसामान्यलक्षणरूपतया द्वैविध्यात् । शाब्दादिकमपि हि प्रमाणम्भवत्सविषयं वक्तव्यं (1) विषयश्च स्वसामान्यलक्षणादतिरिक्तो नास्ति। ततस्तद्विषयत्वे प्रत्यक्षानुमानतैव। नापि सामान्यविशेषात्मक एकोस्ति विषयः । परस्परविरुद्धयोरैकात्म्यायोगात्।
ननु कथं विषयद्वैविध्यसिद्धिः (1) न प्रत्यक्षान्नाप्यनुमानतो यथाक्रमं स्वलक्षणसामान्यलक्षणत्वादनयोः। द्वाभ्यां द्वयसिद्धिरिति चेत्।
ननु प्रत्यक्षस्य सामान्याविषयत्वे साध्यसाधनसम्बन्धाग्रहणादनुमानमेव न स्यात्। सामान्यविषयत्वे च प्रत्यक्षत्वादेव तत्सिद्धेविफलमनुमानस्य प्रामाण्यकल्पने। -- अत्रोच्यते। प्रत्यक्षमपि स्वलक्षणं विषयीकुर्बत् तत्सम्भवि विजातीयव्यावृत्त्युपकल्पितं सामान्यं पृष्ठविकल्पेन निश्चिन्वत्तद्विषयमपि निश्चयविषयेण
* द्रष्टव्यं परिशिष्टं १५ ' नीलोत्पलादि परस्य अर्थसामा स्वलक्षणत्वमेव ।