________________
१०९
. संवादकत्वाद् भगवान् प्रमाणम् यत्किञ्चिदुदयात्मकं (२८६) तत्सर्व निरोषधर्मकमित्यावावागमवाक्येऽनेकपा स्वभावादिलिङ्गजमनेकप्रकारमनुमानं दृश्यते।
b. कथं पुनरनेनानुमानमुक्तमित्याह (1) __ अनुमानाश्रयो लिङ्गमविनामावलक्षणम् ॥२८७॥
व्याप्तिप्रदर्शनाद्धेतोः साध्येनोक्तञ्च तत् स्फुटम् । अनुमानस्याश्रयः कारणं लिङ्गम्वक्तव्यमनुमाननिर्देशार्थमन्यथाऽशक्यत्वात्।
किं लक्षणमित्याह (1) अविनाभावः साध्याव्यभिचारित्वं तल्लक्षणं यस्य तत्तथा। (२८७) स चाविनाभावो लिङ्गं लक्षणं हेतोरुदयधर्मकत्वस्य साध्येन निरोधधर्मकत्वेन व्याप्तेः प्रदर्शनात् “यत्किञ्चिदुदयधर्मकं तत्सव्वं निरोधधर्मकमि"'त्यादिना स्फुटः प्रव्यक्तो दर्शित (ः।)
इत्यनुमानप्रामाण्यनिर्देशोपि भगवदुपज्ञमेव (1) तदेवं भगवानेव प्रमाणभूतस्तायी मुमुक्षुभिरुपास्यो नेतर इति दर्शनार्थमा चार्येण तस्य स्तुतिरुक्तेति युक्तं ॥
प्राचार्य म नो र थ न न्दि कृतायां प्रमाणवात्तिकवृत्ती प्रथमः परिच्छेदः ॥
'महावग्गे २१८