________________
प्र० वा० वृत्ती ( १ परिच्छेदः)
तच्च सत्यचतुष्टयं विनेयानां वक्तुमभियोगः सादरसततप्रवृत्तिस्तद्वान् तायी चेत्यर्थः। तस्मात् कारुणिकत्वात् सुगतत्वात् शास्तृत्वात् तायित्वाच्च भगवतः प्रमाणता यथोपदशितार्थसम्वादकताऽन्यैरज्ञातचतुः सत्यार्थप्रकाशकता वाऽनुमीयत इत्यर्थः ।
१०८
एवञ्चानुमानानुमेयव्यवहारे स्थिते प्रामाण्यात्तायित्वं हितैषित्वादु पाया20b भ्यासाच्च सुगतत्वम्भवतीत्युक्तं ।
(७) संवादकत्वात् भगवान् प्रमाणम् कस्मात्पुनरनेकगुणसम्भारसम्भवेपि प्रामाण्येनैव भगवतः स्तुतिरित्याह ( 1 ) उपदेशतथाभावस्तुतिस्तदुपदेशतः ॥ २८५ ॥ प्रमाणतत्व सिध्यर्थं ;
उपदेशस्य तथाभावः सम्वादकत्वं प्रामाण्यं । तेन स्तुतिराचार्येण कृता । तस्य भगवत उपदेशतः (२८५) प्रमाणस्य तत्त्वं लक्षणं तत्सिध्यर्थं भग व द्दे शनायाः प्रमाणविनिश्चयो नोत्प्रेक्षामात्रेणेत्याख्यातुमित्यर्थः ।
a. ननु "नीलसमङ्गी पुरुषो नीलं जानाति नो तु नीलमिति ब्रुवता भगवता प्रत्यक्षं दर्शितं । अनुमानं नोक्तं । कथमागमात् प्रत्येतव्यमित्याह ( 1 )
अनुमानेऽप्यवारणात् ।
प्रयोगदर्शनाद् वाऽस्य ;
अनुमानेप्यवारणादिष्टिर्देशिता । " शून्याः परप्रवादा" इत्यादिना शाब्दादेरेव निषेधात् प्रयोग स्य परार्थानुमानरूपस्य दर्शनाद्वागमेऽस्यानुमानस्य निर्देशः कृत एव भगवता (1)
तमेव प्रयोगमाह (1)
यत् किञ्चिदुदयात्मकम् ॥२८६॥ निरोधधर्मकं सर्व तदित्यादावनेकधा ।
१ " प्रमाणभूताये" त्येव स्तुतिपवमाह [ प्रमाण ] समुच्चये । [" प्रमाणभूताय जगद्धितैषिणे प्रणम्य शास्त्रे सुगताय तायिने । प्रमाणसिद्ध स्वमतात् समुच्चयः करिष्यते विप्रसृतादिकः ॥ (११) ॥ ] * सकाशात्प्रमाणयोः । ३ अन्यान्यप्याक्षिप्तानीति प्राह्माणि स्युरित्याह ।