________________
. . तायित्वाद् भगवान् प्रमाणम् तस्मात्प्रमाणसम्वादिनः । परोक्षार्थस्योपदेशस्तत्साक्षात्कारपूर्वक एवेति युक्तं तायित्वात् सुगतत्वानुमानं भगवतः। स च भगवान् तायः सुगतत्वात् त्रिगुणात् गुणानुक्रमेण।
बाह्यशैक्षाशैक्षाधिकस्ततः। बाह्यशक्षाशक्षेभ्योऽधिकः ये लौकिकभावनामार्गेण वीतरागा बाह्या अतत्वदर्शिनस्तेभ्यः तत्त्वदर्शित्वादधिकः। ये शैक्षा अबाह्याः परिहाणिधर्माणस्तेभ्योपुनरावृत्त्या। ये चाशैक्षाः श्रावका अप्रहीणक्लेशवासना असाक्षात्कृतसकिारवस्तवस्तेभ्यो निःशेषप्रतीत्या। तस्मात् सुगतत्वात् शासनं शास्तृत्वमनुमीयते। किं पुनः शासनमित्याह (1)
परार्थज्ञानघटनं तस्मात् तच्छासनं ततः ॥२८३॥
दयापरार्थतंत्रत्वं; तच्छासनं कारणे कार्योपचारात् परार्थ यज्ज्ञानं सुगतत्वं तदर्थ घटनं व्यायामः । बुद्धत्वसाधनमार्गाभ्यास इत्यर्थः । न ह्युपायमन्तरेणोपेयसम्भवः। ततः शासनाद् (२८३) वयापरार्थतन्त्रत्वं परार्थप्रधानत्वं जगद्धितैषित्वमनुमीयते इत्यर्थः।
ननु नावश्यं कारुणिकस्य मोक्षमार्गाभ्यासः । स्वार्थबुद्धपापि बाह्यानामिव सम्भवात् तत्कथमुपायाभ्यासाद्दयानुमानमित्याह (1) .
सिद्धार्थस्याऽविरामतः । सिद्धार्थस्य निष्पन्नमोक्षलक्षणात्मसम्वादस्यापि सुगतस्य खङ्गादिवत् परार्थक्रियातोऽविरामतोऽनिवृत्तेः फलावस्थायान्दयासद्भावाद्धत्ववस्थायामपि तस्यास्तित्वमनुमानञ्च। - जगद्धितैषित्वस्य सुगतत्वशास्तृत्वतायित्वसहितस्य प्रामाण्यसाधनत्वमाह (1)
- दयया श्रेय आचष्टे;
यतो वयया जगद्धितैषित्वेन श्रेय आचष्टे। निर्दयस्तु विसम्वादनाभिप्रायोपि बूयात्। सदयोप्यभूतमज्ञो वक्तीत्याह (1)
झानात् सत्यं ससाधनम् ॥२८४॥ ज्ञानात् सुगतत्वात् भूतमाचष्टे। तच्च ज्ञानं ससाधनं विद्यमानोपायाभ्यासं विद्यमानशास्तृत्वमित्यर्थः । (२८४)
तच्चाभियोगवान् वक्तुं यतस्तस्मात् प्रमाणता।