________________
प्र० वा० खुसी (१ परिच्छेदः)
दोषा न कर्मणो भवन्ति किन्तु दोषैर्दुष्टः प्राणी कर्मकरो भवति न विप' - दुष्टः कर्म करोति नैरात्म्यदर्शिनस्तृष्णाभावात् । क्वचित् प्रवृत्तिनिवृत्त्यसम्भवात्। (२८१)
१०६
ननु कर्मणः शुभात् सुखं सुखादभिलाषोऽभिलाषाच्च राग इति कर्मणो दोषजन्मेत्याह (1)
मिध्याविकल्पेन विना नाभिलाषः सुखादपि ।
यश्च सुखादप्यभिलाषो रागहेतुर्दृश्यते स च मिथ्याविकल्पेन विना स्थिर - सुखमदीयाहंकारविकल्पनमन्तरेण न भवतीत्य ायोनिशोमनस्कार एव दोषहेतुः न कर्म । ततः सत्यपि कर्मण्युन्मूलितात्मदृष्टयो निर्दोषा निर्व्वान्ति । निर्वाणञ्च * दुःखनिरोधलक्षणं । दुःखं परिज्ञाय तत्समुदयं मार्गभावनया प्रहाय प्राप्यते नान्यथेति ।
चतुः सत्यप्रकाशक एव मुमुक्षूणामुपास्य इति तायित्वमुक्तं ।
ङ. तायात् सुगतत्वसिद्धिः
तदेवमनुलोमतः " प्रमाणभूतायेत्यादि पञ्चपदानि व्याख्याय प्रतिलोमतो लिङ्गलैङ्गिकत्वं दर्शयन्नाह (1)
तायात् तस्वस्थिराशेषविशेषज्ञानसाधनम् ॥२८२॥
तयाच्चतुः सत्यप्रकाशलक्षणात् लिङ्गात् तत्त्वस्थिराशेषविशेषज्ञानस्य त्रिगुणस्य सुगतत्वस्य साधनं सिद्धिः । तत्त्वस्य क्षणिकनैरात्म्यस्य ज्ञानात् प्रशस्तं । (२८२)
बोधार्थत्वाद् गमेः ;
अपुनरावृत्त्या च स्थिरं निःशेषं विशेषज्ञानं त्रिगुणं सुगतत्वं बोधार्थत्वाद् गमेर्गतशब्दः प्रकृतिः । न हि सम्वादिनोऽसाक्षात्कृतस्यार्थस्य उपदेश: शक्यक्रियः ( 1 ) न चानुमानेन ज्ञातस्योपदेश इति युक्तमुक्तं । क्षणिकत्वनैरात्म्यादिविषयस्यानुमानस्य भगवदुपदेशमन्तरेणोत्पत्तिबीजाभावात् अगृहीतोपदेशानामभावात् । न च नित्यपरोक्षस्यार्थस्य स्थैर्यादिविपर्ययाध्यवसायिनः कश्चिन्निश्चयोऽस्ति ।
" तत्व स्थिरञ्चाशेषञ्च तैब्विशिष्यत इति विशेषज्ञानं । ★ चतुःसत्यविषयमशेषत्वं ।