________________
नैरात्म्यवृष्टिः क्लेशात् कुतश्चिद्धीयेताशेषमक्लेशलेशतः । ____b. यच्च किञ्चिदवशिष्टं तत् क्लेशात् कुतश्चित् केशोल्लुञ्चनादेः क्षीयते। कर्मक्षयाच्च मुक्तिः । अत्राह' (1)
हीयेताशेषमक्लेशलेशतः। यदि तपसा कर्मक्षयोऽशेषं कर्म हीयेताक्लेशतो विनैव केशोल्लुञ्चनादि'दुःखात्कर्मणः क्षीणत्वाद्यथा नारकादि दुःखं न भवति तथाऽल्पीयोपि न स्यात्। शक्तिसांकर्येपि लेशतः सन्तापक्लेशात केवलात् कर्म हीयेत। न दुःखान्तरानुबन्धी संसारप्रबन्धः तपस्विनः स्यात्।
यदीष्टमपरं क्लेशात् तत् तपः क्लेश एव चेत् ॥२७९॥
तत् कर्मफलमित्यस्मान्न शक्तः सङ्करादिकम् । तपसः शक्त्या शक्तिसङ्करसंक्षयश्च तदा वक्तुं शक्यो यदि स्याविष्टं क्लेशादपर मन्यत्तपो नान्यथा। क्लेश एव चेत्तत्तपः। (२७९) तत्क्लेशरूपं तपः कर्मफलं (तपोऽवशेषितस्य कर्मणः फलमिष्ट) मित्यस्मात्कर्मफलभूतात्तप सः शक्तिसंकरादिकं न* युक्तं । आदिशब्दात्संक्षयश्च।।
c. तस्य' मते तु (1) . . उत्पित्सुदोषनिर्घाताद् येऽपि दोषविरोधिनः ॥२८॥
तजे कर्मणि शक्ताः स्युः कृतहानिः कथं भवेत् । उत्पित्सोस्तृष्णादेर्दोषस्य निर्घातात् येपि दोषविरोधिनो नैरात्म्याभ्यासादय उपायाः (२८०) तज्जे तृष्णादिदोषप्रभवे कर्मणि कारणवारणद्वारेण व्याहन्तुं शक्ता न प्राग्जनिते तस्योत्पन्नत्वात्। अतः कृतस्य कर्मणो हानिःकथम्भवेत्।
d. ननु यथा दोषेभ्यः कर्म तथा कर्मणो दोषाश्च भवन्तीत्यक्षीणकर्मणो न स्यात् मुक्तिरित्याह (1)
दोषा न कर्मणो दुष्टः करोति न विपर्ययात् ॥२८॥
'अत्र शक्तेः क्षयः साङ्कर्यम्वेति पक्षौ द्वौ।
केशोल्लुञ्चनादेरन्यत् कुशलरूपं तपोपीष्टं स्यात् । ३ फलस्य कर्तृत्वायोगात् संकरक्षये। "यन्मते मार्गात्तृष्णाक्षये कर्मणोपि क्षय इष्टः। 'पूर्वकृतकर्मक्षयो नेति न कृतस्य हानिः।।