SearchBrowseAboutContactDonate
Page Preview
Page 129
Loading...
Download File
Download File
Page Text
________________ ... नैरात्म्यदृष्टिः . . घ. सम्यग्दृष्टिनेंरात्म्यदृष्टिः मार्गविपर्ययं संसारहेतुमुक्त्वा मार्गमाह (1) तत्रैव तद्विरुद्धार्थतत्त्वाकारानुरोधिनी ॥२७३॥ हन्ति सानुचरां तृष्णां सम्यग्दृष्टिः सुभाविता। तत्र सत्यचतुष्टय एव सम्यग्दृष्टिनॆरात्म्यदृष्टि: तद्विरुद्धार्थतत्त्वाकारानुरोधिनी (२७३) तेषां स्थिरसुखाद्याकाराणामविद्यारोपितानां विरुद्धोऽर्थस्तस्य तत्त्वानि भूता आकारा अनित्या सुखादयः षोडशाकारास्ताननुरोढुं शीलं यस्याः सा तथा सुभाविता सादरनिरन्तरदीर्घकालाभ्यासप्राप्तवंशद्या हन्ति तृष्णां जन्महेतुं सानुचरां मात्सर्यादिपरिवारां। (क) तृष्णाक्षयात् मोक्षः · ननु तृष्णाक्षयेपि कर्मदेहयोर्जन्महेत्वोर्भावात् जन्म किं न भवतीत्याह (1) बिहेतोर्नोद्भवः कर्मदेहयोः स्थितयोरपि ॥२४॥ - एकाभावाद् विना बीजं नास्कुरस्येव सम्भवः । बिहेतोस्तृष्णाकर्मदेहहेतोर्जन्मनस्तृष्णायाः आये कर्मदेहयोः स्थितयोरपि नोद्भवः उत्पत्तिर्न भवति (२७४) एकाभावात् हेतुसामग्र्यवैकल्यात् विना बीजं क्षित्युदकादिभावेपि नाङकुरस्योद्भवः। a. ननु त्रिहेतोर्जन्मन एकाभावे पि चेदनुत्पत्तिः तत्कि कर्मणो देहस्य वा. क्षयो नाभ्यस्यते। परे चाहुः कर्मक्षयान्मुक्तिरिति। अत्राह (1) असम्भवाद् विपक्षस्य न हानिः कर्मदेहयोः ॥२७॥ अशक्यत्वाच्च तृष्णायां स्थितायां पुनरुद्भवात् । असम्भवाद्विपक्षस्य न हानिः कर्मदेहयोरस्ति। (२७५) अशक्यत्वाच्च । सत्यपि वा विपक्ष तदभ्यासाद् देहकर्मनिवृत्तिरशक्यक्रिया। तृष्णायां स्थितायां तत्प्रचितस्यात्मग्रहवतो गर्भस्थानपरिग्रहे सति पुनरुभवात् देहस्य शरीरिणश्च तृष्णयेव प्रवृत्त्या सर्वत्र शुभाशुभप्रवृत्तश्च (1) b. एवन्तर्हि तृष्णा कर्म च क्षपयितव्यं मुमुक्षुणेत्याह (1) __द्वयक्षयार्थ यले च व्यर्थः कर्मक्षये श्रमः ॥२७६।। ' तृष्णामुपेक्ष्यातहीणामेव। बोडमशक्ये।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy