________________
१०२
प्र० वा० वृत्तौ (१ परिच्छेदः)
III. नैरात्म्ये स्मृतिसंगतिः ___ कर्तृभोक्तृत्वहानिः स्यात् सामर्थ्यश्च न सिध्यति ।
एवं कर्तृत्वभोक्तृत्वहानिः स्यात्। आत्मनोऽतत्स्वभावत्वात्। तत्सम्बन्धात् कर्ता भोक्ता च। अनुपकृतस्य सम्बन्धित्वेऽति प्रसङ्गात् उपकृतत्वं वेदितव्यं तच्चाशक्यसाधनं यस्मानित्यस्याव्यतिरेकित्वात् सामर्थ्यञ्च न सिध्यति ।
ननु यद्यात्मा नास्ति तदाऽन्येनानुभूतं कर्म च कृतमन्यः स्मरति भुक्ते फलमिति स्यात्तथा चातिप्रसङ्ग इत्याह (1) तत्वसं १८४. अन्यस्मरणभोगादिप्रसङ्गाश्च न बाधकाः ॥२७१॥
अस्मृतेः; कस्य चित् तेन ह्यनुभूतेः स्मृतोद्भवः। अन्यस्य स्मरणभोगादिप्रसङ्गाश्च न बाधका भवन्ति (२७१) अस्मृतेः। कस्यचित् स्मर्तुरभावात्। एवं भोगोपि नास्ति भोक्त्रभावात्। तेन हि तस्मात् 19b स्मन॒भावात् कारणाद्विषयाणामनुभूतेः सकाशात् स्मृतिरेव स्मृतं तस्योद्भवः।
वस्तुधर्मो ह्येष यदनुभवः पटीयान् स्मरणबीजाधानद्वारेण स्मरणं जनयति । शुभाशुभचेतनाश्च संस्कारा भोगाकारं सम्विदं प्रवर्तयन्ति (1) तत्कि स्मर्तृ - भोक्तृदुर्ग्रहेण । तत्तदाकारः प्रतीत्यसमुत्पन्नो बुद्धिप्रबन्ध एव केवलो न तु संसारी नाम कश्चित्। h. यदि नास्त्यात्मा कथं स कोपदृष्टि: संसारप्रवृत्तिात्याह (1) .
स्थिरं सुखं ममाहञ्चेत्यादि सत्यचतुष्टये ॥२७२॥
अभूतान् षोडशाकारान् आरोप्य परितृष्यति । स्थिर'मक्षणिकं सुखं त्रिदुःखताविपरीतं ममेत्यात्मीयमहमित्यात्माहंकारश्चेति दुःखसत्यस्य विपरीता आकारा इत्याद्यान् प्रति सत्यं चतुरः कृत्वा षोडशाकारान् भूतान् प्राक् यथोक्तभूताकारविपरीतान् सत्यचतुष्टये (२७२)ऽरोपयतीति भ्रान्तिरेव सत्कायदृष्टि: स्वबीजप्रभवा। आरो प्य च किञ्चित् स्वसुखसाधनञ्च मन्यमानस्तदर्थं परितृष्यति । तृष्णया च जन्म स्थानोपादानमिति संसारप्रवृत्तिः।
.
१ नित्यमिति वाच्ये क्षणात् परं स्थायी सर्वो नित्य इत्यर्थः । २ असमुदया हेत्वप्रभवाद्याः। ३ स सत्कायदृष्टिमान तामारोप्य च।