________________
सत्कायदृष्टिः
१०१ निरोधः। ते बुद्धिनिबन्धनवृत्तयो न स्युः। अथ दुखेत्तवा मरणकालेऽभावान स्युः धारणप्रेरणादयः। - अत्राह। सन्धीयते जन्यते मलैमिथ्याज्ञानैमिथ्याज्ञानात्मस्नेहादिभिर्बुद्धिर्मरणसमयेपीति कुतो बुद्धयभावः। (२६७)
बुद्धस्तेषामसामर्थ्य जीवतोऽपि स्युरक्षमाः। निर्हासातिशयात् पुष्टौ प्रतिपक्षस्वपक्षयोः ॥२६८॥
दोषाः स्वबीजसन्ताना दीक्षितेऽप्यनिवारिताः । अथ मला अपि दीक्षयोपहतसामर्थ्या न बुद्धि सन्द'धति। तदा तेषां मलानामसामर्थ्य स्वीक्रियमाणे जीवतोपि दीक्षितस्य मला बुद्धिसन्धानं प्रत्यक्षमाः स्युः। दीक्षा मलानां बाधिकेत्यपि मिथ्या। तथा प्रतिपक्षस्य नैरात्म्यभावनायाः स्वपक्षस्यायोनिशोमनस्कारस्याभ्यासात् पुष्टौ सत्यां दोषाणां यथाक्रम निसिादपचयात् । अतिशयादभिवृद्धे (२६८)ोषाः स्वकीयाद् बीजात्तुल्यजातीयकारणात् सन्तामो येषां ते दीक्षितेपि दोषबीजे परिपोषवत्यनिवारिताः।
___II. प्रात्मनो नित्यत्वे न पुनर्जन्म स्यादेतद् (1)आत्मनोपि गर्भगतकरणादिजनने व्यापारः स एव दीक्षया निरुद्ध इति न पुनर्जन्मेत्याह (1) - नित्यस्य निरपेक्षत्वात् क्रमोत्पत्तिविरुष्यते ॥२६९॥
क्रियायामक्रियायाञ्च क्रिययोः सहशात्मनः।
ऐक्यञ्च हेतुफलयोर्व्यतिरेकस्ततस्तयोः ॥२७०॥ नित्यस्यानुपकार्यतया निरपेक्षत्वात् करणादीनां क्रमे गोत्पत्तिविरुध्यते समत्वहेतुसद्भावात् सकृदुत्पादप्रसक्तेः । (२६९) इन्द्रियादेः क्रियायामक्रियायाञ्च सदृशात्मनस्तुल्यरूपस्यात्मनस्तयोः कालयोस्ते ते विरुध्येते।
यद्यसौ कार्यकरणस्वभावः तदा कार्यादेव क्रियाविरामोस्य विरुध्यते । एवमक्रियायामपि वाच्यं । किञ्च (1)आत्मनः कर्मकर्तृता हेतुत्वं भोक्तृत्वञ्च फलं ते चात्मन एकरूपस्य रूपे इति हेतुफलाभेदप्रसङ्गः। व्यतिरेको भेदस्तत आत्मनस्तयोः कर्तृत्वभोक्तृत्वयोधर्मयोस्ततो नैक्यप्रसङ्ग इति चेत्। (२७०।) .
' पूर्व कृतवान् पश्चादपि गर्ने व्याप्रियत इति कमः।