________________
१००
प्र० वा. वृत्तौ (१ परिच्छेदः) c. ननु कर्मापि जन्मकारणमिष्टं तत्कथमज्ञानतृष्णे एवोक्ते इत्याह (1)
ते चेतने स्वयं कर्मेत्यखण्डं जन्मकारणम । गतिप्रतीत्योःकरणान्याश्रयस्तान्यदृष्टतः ॥२६४॥
अदृष्टनाशादगतिः तत्संस्कारो न चेतना। ते चेतने मिथ्याज्ञानतदुद्भूततर्षसंचेतने स्वयमात्मना पूर्वशुभाशुभकर्मसंस्कारसहाये कर्म कर्मस्वभावे इत्यखण्डमन्यूनं जन्मकारणमुक्तमिति न विरोधः। स्यादेतद्(1) गतिप्रतीत्योरभिमतदेशगमनस्य ज्ञानस्य च करणानीन्द्रियाणि। आश्रयः कारणं' इन्द्रियेभ्य उत्पन्नेन ज्ञानेन विषयं परिच्छिद्य प्रवृत्तेः। तानीन्द्रियाणि चाहतः शुभादिलक्षणाद् (२६४) दीक्षया चादृष्टनाशात्तत्कार्याणां कारणानामनुत्पत्तेविषयस्य परिच्छेदतृष्णयोरभावात् अगतिर्जन्मस्थान इति नास्ति पुनर्भवो दीक्षितस्य (1) तददृष्टञ्चात्मसंस्कारो न चेतना स्यात् दीक्षितस्यापि सास्तीति जन्मापि" स्यात्।।
b. अत्रा ह (1) . सामर्थ्य करणोत्पत्तेर्भावाभावानुवृत्तितः ॥२६५।।
दृष्टं बुद्धेर्न चाम्यस्य सन्ति तानि नयन्ति किम् । बुद्धे र्भावाभावानुवृत्तितोऽन्वयव्यतिरेकानुवृत्त्या करणानामेक स्माद्देशादपरदेशसम्बद्धानामुत्पत्तेः कारणात्सामर्थ्य बुद्धेरिन्द्रियजनन प्रति (२६५)दृष्टं नान्यस्य संस्काररूपस्यादृष्टस्य तदन्वयव्यतिरेकानुविधानानुपलम्भात्। सा बुद्धिश्चास्ति देशान्तरसम्बद्धकरणजनिका दीक्षितस्य तत्किन्तानि करणानि गर्भस्थानन्नयन्ति गच्छन्ति हेत्ववैकल्याद् भवितव्यं (२६६) । c. गमनेनावश्यं दीक्षयोपहता बुद्धिर्देशान्तरं नेतुमिन्द्रियाण्यशक्ता चेत्।
धारणप्ररणक्षोभनिरोधाश्चेतनावशाः ॥२६६॥ . . न.स्युस्तेषामसामर्थ्य तस्य दीक्षाद्यनन्तरम् ।
अथ बुद्धस्तदाभावान स्युः सन्धीयते मलैः ॥२६॥ नन्वेवन्तस्य मुमुक्षोर्वीक्षानन्तरं बुद्धरसामर्थ्य तेषामिन्द्रियाणां स्वविषये व्यवस्थापनं धारणं। तत्रा योजनं प्रेरणं। क्षोभो विकारः। स्वविषयान्निवर्तनं
विशति कुशलाकुशलाः। बौद्धोक्तः। 'समाधान। मिथ्याज्ञानतर्षयुतायाः। • आकृष्वं नयनं। "भ्रूभङ्गादि।
इति पराभिप्रायः। यत्रोत्पत्स्यते।