________________
सत्कायवृष्टिः नालं बीजादिसंसिद्धो विधिः पुंसामजन्मने ॥२६॥
तैलाभ्यङ्गाग्निदाहादेरपि मुक्तिप्रसङ्गतः। - नालं शक्तो बीजादिषु संसिद्धो विधिर्दीक्षायाः पुंसामजन्मने। (२६०) . तैलाभ्यङ्गाग्निदाहादेरपि संसारान्मुक्तिप्रसङ्गतः। तैलेनाभ्यक्तं बीजमग्निना च स्पृष्टं न प्ररोहति' तथा पुरुषोऽपि तैलाभ्यङ्गाग्निदाहाभ्यां न पुनर्भवेत्।
___I. आत्मनोऽमूतत्वे न पापगौरवलाघवम् a. स्यादेतत्। दीक्षायाः प्राक् पापगुरोरुत्तरं तुलया लाघवात् । पापाभावोपलम्भ आगमप्रामाण्यनिबन्धनमित्याह (1)
प्राग् गुरोर्लाघवात् पश्चान-पापहरणं कृतम् ॥२६१॥
मा भूद् गौरवमेवास्य न पापं गुर्वमूर्त्तितः । - प्राग् गुरोलाघवात् पश्चान्न पापहरणं कृतं । दीक्षायाः प्राग् गुरोः पश्चाल्लाघवात् दीक्षया न पापहरणस्य दीक्षितस्य किन्तु गौरवमेवास्य कृतं सत् (२६१) मा भूदिति कस्मान्न कल्प्यते। लाघवं हि गौरवविरोधि दृश्यमानं तदभावमेव गमयेत्। न पापभावं। पापमेव गुर्विति'चेत्। न पापं गुरु । अमूत्तितो मूर्त्तत्वाभावात्। मूर्तधर्मो हि गौरवं कथं पापस्यामूर्तस्य स्यात्। . ननु त्वत्पक्षेऽपि नैरात्म्यदर्शने भूतेपि कस्मान्न जन्मत्याह (1)
मिथ्याज्ञानतदुद्भूततर्षसञ्चेतनावशात् ॥२६२॥
हीनस्थानगतिर्जन्म ततस्तच्छिन्न जायते । मिथ्याज्ञानं दुःखे विपर्यासमतिः। तदुद्भूतस्तों मिथ्याज्ञानप्रभवा तृष्णा। ताभ्यां संप्रयुक्ते चेतने। तद्वशाद्या हीनस्थानगतिस्तज्जन्मत्युक्तं। अतस्तच्छित् । अज्ञानतृष्णाच्छेदको नैरात्म्यदर्शी न जायते कारणाभावात्। .
तदेवाह (1) • तयोरेव हि सामर्थ्य जातौ तन्मात्रभावतः ॥२६३॥ तयो रेवाज्ञानतृष्णयोहि सामर्थ्य जातो जन्मनिमित्तं तन्मात्रेण भावतः॥ ते च दीक्षितस्यापि स्त इति स जायते। (२६३)
19a
पक्षोवश्वेदविदलनमाविना। "इह च तृष्णया देशान्तरं कुर्यात्। तृष्णाक्षानभावाभावानुकारात्।