SearchBrowseAboutContactDonate
Page Preview
Page 124
Loading...
Download File
Download File
Page Text
________________ प्र० वा. वृत्तौ (१ परिच्छेदः) III. संसारी क्लेशकर्मभ्याममुक्तः . (ज) सत्कायदृष्टिलम् आत्माऽपि न तदा तस्य क्रियाभोगौ हि लक्षणम् । तस्मादनादिसन्तानतुल्यजातीयबीजिकाम् ॥२५८॥ उत्खातमूलां कुरुत सत्वदृष्टि मुमुक्षवः। भोक्तभावे आत्मापि नास्तीति प्रसङ्गात् । कुत इति चेत्। हिर्यस्मादस्यात्मनः क्रियाभोगी लक्षणं कर्ता भोक्ता चात्मोच्यते (1) यदा चात्मीयमेव । नास्ति किमर्थ कर्म कर्तव्यं किम्वा भोक्तव्यं । कर्तृत्वभोक्तृत्वाभावादात्माभाव एव स्वीकृतः स्यात्। तस्मात्सत्यात्मनि आत्मीयं तत्स्नेहादिसत्त्वेऽनुच्छेद एव संसारस्य। तस्मात् संसारादुद्विजमाना मुमुक्षव उत्खातमूलामुद्धृतकारणां सत्त्वदृष्टिं कुरुत। ननु किमस्या मूलमित्याह (1) अनाविसन्तानस्तुल्यजातीयः पूर्वपूर्वसत्त्वदर्शनस्वभावोऽविद्यारूपो . बीज कारणं यस्यास्तां (२५८) सत्त्वदर्शनमविद्यास्वभावं पूर्वपूर्वमुत्तरोत्तरस्य सत्त्वदर्शनस्य हेतुरित्यर्थः। (आगममात्रेण न मुक्तिः ) ननूक्तमीश्वरेणागमेऽस्त्यात्मा मोक्षश्चास्य दीक्षाविधिनेति। तत्किमत्र चिन्त्यते तत्कारणा वा धीविधिस्तं बाधते कमित्यादिनोक्तत्वात् (1) अत्राह (1) . आगमस्य तथाभावनिबन्धनमपश्यताम् ॥२५९॥ मुक्तिमागममात्रेण वदन्न परितोषकृद् । आगमस्य तथाभावस्य प्रतिपादितार्थसम्वादित्वस्य निबन्धनं हेतुमपश्यतां । (२५९) मुमुक्षूणामागममात्रेण मुक्तिं वदन् न परितोषकृद् भवति । बीक्षाऽकिञ्चित्करी नन्वस्ति प्रामाण्यनिबन्धनमागमस्य दीक्षाविधिस्पृष्टस्यानारोहधर्मकत्वदर्शनं । यथा हि बीजं दीक्षाविधिस्पृष्टं न प्ररोहति तथा पुमानपि दीक्षितो न पुनर्भवतीत्याह (1) 'यथोक्तमिह "यावच्चतुर्थः श्रमणः शून्याः परप्रवादाः श्रमणाह्मणा" ।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy