SearchBrowseAboutContactDonate
Page Preview
Page 123
Loading...
Download File
Download File
Page Text
________________ सत्कायवृष्टिः . सा च संस्कारदुःखता नोऽस्माकं सौगताना प्रत्ययोत्पत्तिर्हेतुपारतन्त्र्यं । सा प्रत्ययोत्पत्तिनॆरात्म्यस्य' दृशो दर्शनस्याश्रयः कारणं। 18b ... b. तथा हि हेतुफलभूताः क्षणक्षयिणो भावाः प्रवृत्तयो नात्मरूपा नाप्यात्माधि- ... ष्ठिता इति सँस्कारदुःखताभावना नैरात्म्यदर्शनानुकूला सैव च मुक्तिहेतुरित्याह (1) मुक्तिस्तु शून्यतादृष्टेस्तदर्थाः शेषभावनाः ॥२५५॥ मुक्तिस्तु शून्यताया निरात्मताया दृष्टः। शेषस्य नित्यदुःखादेर्भावनास्तवर्षा निरात्मदर्शनार्थाः । (२५५) _II. अनित्यदुःखानात्मता ___ अनित्यात् प्राह तेनैव दुःखं; दुःखान्निरात्मताम। - तेनैवानित्यदुःखभावनायाः शून्यताभावनानुकूलत्वेन भगवाननित्यादनित्यत्वाद् दुःखं संसारिस्कन्धानां हा(नाद्) दुःखाद् दुःखत्वान्निरात्मतामाह (1) तथा "रूपं भिक्षवो नित्यमनित्यं वा। अनित्यं भदन्त । यदनित्यं तद् दुःखं सुखम्वा। दुःखम्भदन्त। यदनित्यं दुःखं विपरिणामधर्मकं कल्प्यन्नु तदेवं द्रष्टुः एतन्मम एषोहमस्मि एष मे आत्मेति। नो हीदं भदन्त।" इत्येवं हेतुफलभाव नेनात्मदर्शनमेव मुक्तेरुपाय इति कथितं । तदेवाचार्येणोक्तं (1) उक्तो मार्गः तदभ्यासादाश्रयः परिवर्तत इति नास्ति विरोधः। यः पुनरात्मदर्शी सोऽविरक्त एव। - अविरक्तश्च तृष्णावान् सर्वारम्भसमाश्रितः ॥२५॥ अविरक्तश्च तृष्णावान् । हान्युपपदानलक्षणान् कर्मप्रसवहेतून् समा--- श्रितः। (२५६) सोऽमुक्तः क्लेशकर्मभ्यां संसारी नाम तादृशः। आत्मीयमेव यो नेच्छेद् भोक्वाप्यस्य न विद्यते ॥२५॥ सोऽमुक्तः क्लेशकर्मभ्यां आत्मदर्शनप्रवृत्तिकारणकाभ्यां संसारी नाम प्रसिद्धः तादृशः। तदेवमात्मनि सति नात्मीयत्यागः। तथाऽमुक्तिरित्युक्त। भवतु वाऽत्मीयत्यागस्तथाप्यात्मीयमेव यो नेच्छेत्तन्मतेऽस्यात्मीयस्य भोक्ता न विद्यते भोग्यापेक्षत्वाद् भोक्तृत्वस्य (२५७) । सापि न साक्षाभाविनामुक्तमिति। 'मज्झिमनिकाये महापुण्णमसुत्तन्ते (१०९)। हेतुफलभावकथनेनात्मवर्शनमेव।
SR No.002419
Book TitlePramanvarttikam
Original Sutra AuthorN/A
AuthorRahul Sankrutyayan
PublisherAllahabad Law Journal Press
Publication Year
Total Pages610
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy